पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
प्रथमोऽङ्कः ।

एतानि तान्यापतितानि काले भाग्यक्षयान्निष्फलमुद्यतानि ।
तुरङ्गमस्येच रणे निवृत्ते नीराजनाकौतुकमङ्गलानि ॥ १२ ॥

 प्रतीहारी - (क) अय्य ! इमा पडिसरा ।

 यौगन्धरायणः—-विजये ! स्थाप्यताम् ।

 प्रतीहारी - (ख) किं त्ति भट्टिमादरं णिवेदेमि ।

 यौगन्धरायणः—विजये ! एवमेतत् ।

 प्रतीहारी–(ग) किं एदं ।


 (क) आर्य ! इयं प्रतिसरा ।

 (ख) किमिति भर्तृमातरं निवेदयामि ।

 (ग) किमेतत् ।


 एतानीति । उद्यतानि यत्नसाधितानि । एतानि तानि इमानि पूर्वप्रार्थितानि वरतूनि प्रतिसरारूपाणि । भाग्यक्षयात् शुभादृष्टनाशात् । काले निवृत्ते उपयोनावसरे अतीते सति । निष्फलं निष्प्रयोजनं यथा भवति तथा । आपतितानि उपनतानि । अत्रोपमामाह—रणे निवृत्ते युद्धे अवसिते सति । तुरङ्गमस्य अश्वस्य । नीराजनाकौतुकमङ्गळानीव नीरजना आरात्रिकाख्यम् आरोग्यबळाद्यर्थे युद्धात् प्राक् कर्तव्यं शान्तिकर्भ , तदेव कौतुकम् उत्सवः , तस्य मङ्गलानीव तदुपयोज्यानि दीपपुष्पादीनि मङ्गलद्रव्याणीव । इह एतानीति वस्तुस्वसामान्यविवक्षया नपुंसकम् । सा च प्रतिसराणाम् अनुपयोगप्रयुक्त्तं विशेषरूपेऽनादरं व्यङ्क्तुम् ॥ १२ ॥

 स्ववाक्यमदत्तावधानमिव मन्यमाना पुनरप्याइ-अय्येत्यादि ॥

 विजय इत्यादि । स्थाप्यतां , प्रतिसरा यत आनीता तत्रैव निवेश्यताम् ॥

 किं त्तीत्यादि । भर्तृमातरं , प्रतिसराया अनुपयोगे कारणं पृच्छन्तीमित्यार्थम् । किमिति केन प्रकारेण ॥

 विजये इति । एतत् बुदिस्थं स्वामवृत्तं निवेद्यवस्तु । एवम् अनेन प्रकारेण वर्तत इति शेषः ॥

 अस्पृष्टत्वात् पृच्छति-किं एदमिति ॥