पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
प्रथमोऽङ्कः

 हंसकः-(क) तदो लुहिपडळपिच्छिळए भूमीए सो णिसंसओ सएण एण ओघट्टिदचळणो पडिहदारम्भो हदो पडदा ।

 यगन्धरायणः --पतितः पाप एषः । भोः !

परचकैरनाक्रान्ता धर्मसफ़रवर्जिता ।
भूमिर्भतीरमापन्नं रक्षिता परिरक्षति ॥ ९ ॥


 (क) ततो रुधिरपटलपिच्छिलायां भूमौ स नृशंसः स्वेन वेगेनावधट्टितचरणः प्रतिहतारम्भे हतः पतितः ।


आधारय ईषत् स्थापय विरमय, मदाश्वासानन्तरं वृत्तान्तशेष्रं ब्रूहीत्यभिप्रायः । धारयेत्यपि पाठः। अथवा उच्छूसामीत्यस्य निःश्वासानन्तरकार्यमुच्छ्वसनं करोमीत्यर्थः । अयं भावः –प्राणिसामान्यसुकरमपि स्वामिदुर्गतिविशेषश्रवणव्यतिकरे ऽस्मिन् दुः- खोद्रेकाद् दुष्करतां प्रतिपन्नमुच्छुसनं प्रयत्नेन साधयित्वा पर्यवस्थाप्य मानसं पश्वाद् वृतान्तशेषं श्रोष्यामीति । इह उच्छूसमीति गणकार्यानित्यतया शपो लुगभावः , ‘आश्वसेयुर्निशाचराः ’ इति भट्टिप्रयोगवत् ! ।

 तदो इति । ततः, स नृशंसः क्रूरकर्मा । रुधिरपटलापिच्छिलायां रुधिरपटलेन रक्तौघेन पिच्छिळायां मण्डयुक्तयां पङ्किलायामिस्यर्थः । भूमौ, स्वेन वेगेन आधावनजनितेन आत्मवेगेन । अवघट्टितचरणः अवघष्टपादः । प्रतिहतरम्भः विध्नितयत्नः । हतः प्रतिबद्धः भग्नाशो वा ॥

 पतित इत्यादि ।

 स्वामिरक्षायां भूम्यवस्थाविशेषस्य निमित्तस्वोपलम्भाद् भूमेरेव कर्तृत्वं सिद्धं मन्यमानस्तस्यौचित्यं समर्थयते – परेति । परचक्रैः शत्रुसैन्यैः शत्रुकैतवैर्वा । अनाक्रान्ता अपीडिता । धर्मसङ्करवर्जिता धर्माणां वर्णाश्रमसंबन्धिनां सङ्करेण व्यामिश्रणेन वर्जिता रहिता । उक्तविशेषणद्वययोगस्य रक्षणगुणायत्तत्वादाह – रक्षिता सम्यङ् निष्पन्नरक्षेत्यर्थः । भूमिः वत्सभूमिः । आपन्नं विपद्गतम् । भर्तारं स्वरक्षकं । परिरक्षति, उपकारे सति प्रत्युपकारौचित्यादिति भावः । एतेन, वत्सराजः स्वभिप्रदेश एव प्रद्योतभूमिसीमानिकटगते शत्रुभिश्छलित इति गम्यते । अन्योन्यालङ्कारः । ‘चक्रः कोके पुमान् क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे ’ दम्भान्तरे’ इति मेदिनी ॥ ९ ॥