पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
प्रथमोऽङ्कः ।

अथ कस्यां बेलायां प्रत्यागतप्राणः स्वामी ।

 हंसकः-(क) अय्य ! अवसिदावळेचेयु पावेसु ।

 यगन्धरायण -दिष्टया शरीरं धर्षितं , न तेजः। ततस्ततः ।

 हंसकः--(ख) तदो पच्चअदप्पाणं दाणि भट्टारं पेक्खिअ अणेण मम भादा हदे। अणेण मम पिदा अणेण मम सुदो मम वअस्सो ति अञ्ञहा भट्टिणो परकपं वण्णअन्ता सव्यदो अभिहुदा दे पावा ।

यौगन्धरायणः - ततस्ततः ।


 (क) आर्थ ! अवसिताव्वालेपेषु पापेषु ।

 (ख) ततः प्रत्यागतप्राणमिदानीं भर्तारं प्रेक्ष्यानेन मम भ्राता हतोऽनेन मम पितानेन मम सुतो मम वयस्य इति अन्यथा भर्तुः पराक्रमं वर्णयन्तः सर्वतोऽभिद्रुतास्ते पापाः ।


 अथेत्यादि । अथशब्दो वाक्यारम्भे । प्रत्यागतप्राणः प्रत्यापन्नसंज्ञः॥

 अय्येति । आर्य ! पापेषु दुष्टेषु परभटेषु । अवसितावलेपेषु अवसितः परिसमाप्तः अवलेपः अविनयः स्वामिबन्धनलक्षणो येषां तेषु सत्सु । प्रत्यागतप्राण इत्यनुषज्यते ॥

 दिष्टयेति । रीरीरं संज्ञप्रणशनिश्चेष्टः केवलः स्वामिनो देहः । धर्षितं बन्धनेन परिभूतम् । तेजः शौर्यम् । न धार्षतं , ससंज्ञस्य बन्धने हि तेजो धर्षितमिति वक्तुं शक्यमिति भावः । संज्ञाप्रत्यागमनोत्तरकाले चेत् पापानामुद्यमोऽभविध्यत्, स्वामी तेजःप्रकाशनेन बन्धनावसरमेव नादास्यादित्यष्याशयः । दिष्टयेति हर्षेऽव्ययम् । स च स्वामितेजोधर्षणभावकृतः ॥

 तदो इत्यादि । इदानीं प्रत्यागतप्राणं, बन्धनोत्तरकाले प्रतिलब्धसंज्ञम् । अनेनेत्यादयश्चत्वारो भर्तुविक्रमवर्णनप्रकाराः । इत्यन्यथा ,ईद्दशैः ‘मम मातुलो ” ‘मम भागिनेय’ इत्यादिमिरन्यैः प्रकारैरित्यर्थः । अथवा स्वविषयापराधवर्णनभङ्गयेन्यर्थः । अनेनेति तृतीयान्तमार्दममेकमेव मातृकान्तरे पठ्यते । सर्वत: अभिद्रुताः समन्ताद् अभिमुखं प्रधाव्यागताः । इदमत्र विज्ञेयं --काळिदासप्राचीनो भामहो नामालङ्कारिककूटस्थोऽस्या नाटिकायाः स्तसमयसुप्रसिद्वत्वादामधेयमग्रहीत्वैव तदाश्रितेतिवृत्तौचित्यं काव्यालङ्कारे विचारयन् प्रसङ्गाद् ‘अणेण मम मादा' इत्या-