पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
प्रथमोsङ्कः
क्रीतं परैर्गहनदुर्गतया प्रनष्टं ।
युद्धे समस्तमतिभारतया विपन्नम् ॥ ६ ॥
हंसकः--(क) जइ समग्गजोइबळपरिवारो भवे भट्टा, ण एसो
दोसो भवे ।
यौगन्धरायणः--कथमसमप्रयोधबलपरिवारो नाम स्वामी ।
हंसकः--(ख) सुणादु अय्यो ।
यौगन्धरायणः—-अध्वश्रान्तो भवान् । आस्यताम् ।

(क) यदि समग्रयोधबलपरिवारो भवेद् भर्ता , नैष दोषो भवेत् ।
(ख) शृणोत्वार्यः।

दहृतं च सौहृदं स्वाभिनस्तद्विषयः स्नेहः तेन हृतं वशीकृतं च। कुलोद्गतं च प्रशस्तकुलजातं च । व्यायामयोग्यपुरुषं च न्याकायमेन कयिकायासर्विशेषेण तस्मिन् वा योग्याः शक्त्ताः पुरुषाः सादिनो यस्मिस्तत् तथाभूतं च । गुणर्जितं च गुणेन अश्वचर्यानैपुण्यलक्षणेन निमित्तेन अर्जितं संगृहीतं च । भवति । ईदृशगुणयोगादश्वारोहणीये स्वभिरक्षणसामर्थे निश्चितमिति भावः । तथाविधस्याप्यश्वारोहणीयस्य नैफल्ये सम्भावितानि कारणानि पृच्छति-समस्तं सर्वम् अश्वारोहणीयम् अन्यच्च सर्वविधं सैन्यभित्यर्थः । परैः शत्रुभिः । क्रीतं दानाद्युपायेन स्वायत्तीकृतं किम् । गइनदुर्गतया गहनस्य काननस्य दुर्गतया दुर्गमतया हेतुना । प्रनष्टं तत इतो विशीर्णे किम् । युद्धे, अतिभारतया अतिशयितः स्वशक्त्यतीतः भारः प्रतिसैन्यनिग्रहलक्षणं कृत्यं यस्य तस्य भावस्तत्ता, तया, प्रतिसैन्यविग्रहाक्षमतया हेतुनेत्यर्थः। विपन्नं ध्वस्तं किम् । इह क्रीतं प्रनष्टं विपन्नमिति प्रश्नकाकुः ॥ ६ ॥

 जह इत्यादि । भर्ता समग्रयोधबलपारिवारः समस्तभटसैन्यसहायः यदि भवेत् , एष दोषः शत्रुवशप्राप्तिरूपोऽनर्थः । न भवेत् ॥

 असमग्रयोधबलपरिवारतायाः कारणं पृच्छति –कथमित्यादि ।

 सुणादु इत्यादि ॥

 अध्वेत्यादि । आस्यताम् आसित्वा कथ्यतामित्यर्थः ॥