पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
प्रतिज्ञायौगन्धरायणे सव्याख्याने
व्याज ततः समभनन्दति युद्धकाले
सर्वं हि सैन्यमनुरागमृते कळत्रम् ॥ ४ ॥

(प्रविश्य)

विजया –(क) ळेहो खु अअं । पडिसरा सव्ववहूजणहस्थादो तुवारीअंदित्ति भट्टिमादा आह ।

(क) लेखः खल्वयं। प्रतिसरा सर्ववधूजनहस्तात् स्वर्यत इति भर्तृमाता
आह ।

 व्यक्तमिति । तस्य प्रद्योतस्य । बलं सैन्यं । बहु च भवति , एककार्यम् एकं स्वामिकार्यानतिरिक्तं कार्यं यस्य तद् एककार्ये स्वामिकार्यैकतानभित्यर्थः । न च न भवति च । संख्यातवीरपुरुषं च संख्याताः परिमिताः न तु भूयिष्ठाः वीरपुरुषाः शूराः यस्मस्तत् तथाभूतं च भवति । अनुरक्तं स्वामिनि स्निग्धं । न च न भवति च। व्यक्तम् अयमर्थोऽनुमीयत इत्यर्थः । अनुमापकमाह--ततः बलस्य बहुत्वेऽप्येककर्यत्ववीरपुरुषभूयिष्ठवस्वाम्यनुरक्तवरूपगुणयोगाभावादित्यर्थः । युद्धकाले युद्धस्य काळे स्ववैरिणा वरसराजेन सह युद्धस्यावसरे प्राप्ते इत्यर्थः। व्याजं नीलइरत्युपन्यासलक्षणं छझप्रयोगं न तु युद्धं । समभिनन्दति आद्रियते, अर्थात् प्रद्योतः। बलस्यस् यथोक्तगुणवत्त्वे तद्वयपाश्रयेण युद्धमेव शत्रुजयाय साधकतयोपादेयं, न तु ब्याज इति युद्धमुपेक्ष्य व्याजं प्रयुञ्जानः बलस्य गुणहीनतामनुमापयतीति भावः । गुणेष्वपि मध्येऽनुरागमैस्यैव प्राधान्यमित्यभिप्रायेणाह--सर्वे सर्वप्रकारम् । एककार्ये वा वीरपुरुषभूयिष्ठं वा अन्यादृशं वा सकलविधमपि । प्रकारकार्त्स्न्यवृत्तिरिह सर्वशब्दः। सैन्यं सेना स्वार्थे व्यञ्। अनुरागम् क्ष्त्रते स्वामिविषयस्नेहाभावे कलत्रं हि कलत्रमिव शत्रुजयासधकमेवेत्यर्थः । अनया च स्नेहस्य निष्कृष्यप्रशंसया, स एष नियोज्येषु मृग्यो महागुणः स्वामिस्नेहाख्यस्त्वयि दिष्टवा लब्धप्रतिष्ठ इति प्रस्तुतकार्यसिद्धेिं त्वय्यहं दृढमाशंसे इति सलकं प्रति द्योत्यते ॥ ४ ॥

 ळेहो इति । लेखः खलु, अयम्, आनीत इति शेषः । प्रतिसरा, सर्ववधूजनहस्तात् सर्वेषां राजभवनसन्निहितानां वधूजनानां पुरीजनानां हस्तात् । त्वर्यते त्वरितं स्पर्शयित्वा गृह्यते । त्वरतिस्त्वराविशिष्टे करणे वर्तते, तच्च करणमिह स्पर्शयित्वाग्रहणात्मकविशेषरूपमौचित्याद् विज्ञायते । अयमर्थः --प्रतिसरायाः स-