पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३५२ )


कलकलमपरा मुघा विधाय क्षितितिलकानयनान्तमाससाद । अवतरति मृगीदृशां तृतीयं मनसिजचक्षुरुपायदर्शनेषु ॥१४॥


अन्वय

 अपरा मुघा कलकलं विधाय क्षितितिलकात् नयनान्तम् आससाद् । मृगीदृशां तृतीयं मनसिजचक्षुः उपायदर्शनेषु अवतरति ।


व्याख्या

 अपरा काचित् कामिनी मुघा व्यर्यमेव प्रयोजनमन्तरेणैवेत्यर्थः । यलकलं कोलाहल ‘कोलाहलः कलकलःइत्यमरः । विधाय कृत्वा क्षितितलकाभूमि भूषणाद् विक्रमाङ्कदेवानयनयोर्नेत्रयोरन्तमपङ्गभागमाससाद प्राप । कलकल निधेण तस्य दृष्टिकचकर्मेति भावः । मृगणा हरिणीना दृशो नेत्रणीव दृशो यासा तास्तासा हरिणनयनाना तृतीयं तृतीयसंख्याक मनसिजः कामः एव चक्षुर्नयनं कामनयनमुपायान यत्किञ्चिद्याजरूपोपाखानां दर्शनमवलोकनं प्रयोग इत्यर्थः । तेषु स्वाभीष्टसिद्धयुपायप्रयोगेष्ववतरति फलति । काम एव तरुणीनां विभ्रम- दिचमत्कृतानन्यसाधारणव्यवहारशिक्षक इति भावः । पूर्वार्धस्योत्तरार्धेन समर्थना दन्तत्सरेऽलङ् ।


भाषा


 किसी अन्य स्त्री ने, अकारण कोलाहल मचाकर विक्रमाङ्देव का दृष्टिकोण अपनी ओर आकर्षित कर लिया । मृगनयनियो का कामरूपी तृतीय नेत्र, (ऐसे २) उपायों को सुझा देता है ।

हृदि विहितपदेन शुद्धमासा कृतमधरं धरणीन्द्रकानुनेव ।
निपतितमवधीर्यं हारमन्या हरिणविलोलविलोचना जगाम ।१५।।

अन्वयः

 हरिणविलोलविलोचना अन्या शुद्धभासा हृदि विहितपदैन धरणीन्द्र सूनुना अधरं कृतम् इव निपतितं हारम् अवधीर्यं जगाम


व्याख्या

 हरिणस्य मृगस्थ इव विलोले चञ्चले विलोचने नेत्रे यस्याः सा मृगचञ्चल नयनाऽन्या काचित्तलना शुद्धा निमंला भाः पतिर्यस्य तेन निर्मलकान्तिमता 'स्युः