पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रसरदुभयतः प्रहारसज्जं घलयुगलं तदवेक्ष्य वीक्षते स्म ।
समुचितसमरोपभोगलोभात् प्रतिकलमुपुलकं भुजद्वयं सः ॥६७॥

अन्वय:

सः उभयतः प्रसरत् प्रहारसज्जं तत् वलयुगलं अवेक्ष्य ‘समुचित समरोपभोगलोभात् उत्पुलकं भुजद्वयं प्रतिकलम् वीक्षते स्म ।

अन्वय:

स विक्रमाङ्कदेव उभयतोऽप्रत: पृष्ठतश्च प्रसरद्विस्तारमाप्नुवत्प्रहारे प्रहारकरणे सज्ज तत्पर तदद्भुतम् बलयुगलं सेनाद्वयमवेक्ष्य विलोक्य समुचितो योग्यस्ममरो युद्धं तस्योपभोगस्याऽऽस्वादस्य लोभादिच्छात उद्गत: समुत्पन्नः पुलको रोमारुचो यस्मिंस्तभुजद्वयं बाहुयुगल प्रतिकल प्रतिक्षणं वीक्षते स्म दृष्टवान् ।

भाषा

वह विक्रमाङ्कदेव, आगे और पीछे दोनो ओर से, विस्तृत तथा प्रहार करने में तत्पर, उन आश्नयं जनक दोनो सेनाओं को देखकर, अपनी वीरता के अनुरूप युद्ध का आस्वादन करने के लोभ से, रोमान से युक्त अपनी दोनो भुजाओ को क्षण क्षण में अर्थात् बार २ देखता था ।

मदकरटिनमुत्कटप्रतापः प्रकटितवीरमृदङ्गधीरनादः।
मथनगिरिमिवाधिरुह्य वेगात् प्रतिघलचारिधिलो चकार ॥६८॥

अन्वय:

उत्कटप्रतापः प्रकटितघोरमृदङ्गधीरनादः (सः) मदकरटिनं मथनगिरिम् इव अधैिरुह्य वेगात् प्रतियलबारिधिलडनं चकार ।

व्यख्या

उत्कट उत्कृष्ट प्रतापः प्रभावो यस्य स उत्कृष्टप्रभावः प्रकटितः प्रकाशितो वीराणाम् शक्तिशालिनां मुबङगनमिव धीरो गम्भीरो नादो ध्वनिर्यस्य स मदकरटिनं मदाधगतं मथन गिरिमिय मन्दराचलमिवाऽधिरुह्य तदुपरि स्थित्वा येगाज्जवात् प्रतिबलमेव शशभृसंयमेव वारिधिः समुद्रस्तस्य सडनं मथनं चकार विदधे विनाशं चकारेत्यर्थः । उपमापकयोः सङ्करालर ।