पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(३८७)

( ३८७ )

व्याख्या

तत्तस्मात्कारणादत्राऽस्मिन् भवनानां जगतां 'विष्टपं भुवनं जगत्’ इत्यमरः । महोत्सवो हर्षो यस्मात्स तस्मिन् भुवनमहोत्सवे युद्ध इत्यर्थः । परिपन्थिनां शत्रुणां प्रमाये मन्यने विनाशायेत्यर्थः । प्रगुणं सज्ज धनुश्चापो यस्य सः सज्जधनुर्भव सपद्यत्व । भुवि पृथिव्यामेषा तव ते स्थितिस्तांवकीनाऽवस्थानधर्मस्य

सुकृतस्य विरोधिनः प्रतिकूलास्तेषां पापात्मनां वधाय मनु निश्चयेन तेषां

विनाशायैवेनि कि न, कथं न स्मरसि स्मरणचरं करोषि ।

भाषा

इसलिये पृथ्वी को हर्षित करने वाले इस युद्ध में शत्रुओं का नाश करने के लिये धनुष तान कर तयार हो जाओ। इस पृथ्वी पर तुम्हारी स्थिति निश्चय पूर्वक पापियो के नाश के लिये हो है यह बात तुम्हें यो स्मरण नहीं है ।


गिरमिति स निराम्य विश्वभर्तुरितंनयादयितस्य मुक्तनिद्रः ।
वचनमिदमलद्वयमिन्दुमौ हेरिति रणकर्मणि निश्चयं चकार ॥६६॥

अन्वय:

स: विश्वभर्तुः गिरितनयायितस्य इति गिरं निशम्य मुक्तनिद्र: (सन्) इन्दुमौलेः इदं वचनम् अलङ्घयम् इति रणकर्मणि निश्चयं चकार।

व्याख्या

स विक्रमादेवो विश्वस्य सकलसंसारस्य भर्ता पालकस्तस्य गिरेहि माद्भरतनयाय कन्यायाः पार्वत्या दयितः पतिस्तस्य शिवस्येति पूर्वोक्तां गिरं वाणीं निंदाम्य श्रुत्वा मुक्ता स्यक्ता निद्रा स्वापो येन स जागृतस्समिन्दुश्चन्द्रो मौलौ मस्तके यस्य स तस्य चन्द्रशेखरस्य शद्धरस्येदं स्वप्नक्तं वचनं वचोsलङ्घयधमतिक्रमणीयमिति हेतो रणकर्मणि यद्धकार्ये यद्धमित्यर्थ: । निश्चयं व्यवसायात्मिका युद्धिं चकार कृतवात् ।

भाषा

विक्रमाङ्कदेव ने समस्त ससार का भरण पोषण करने वाले पार्वती के पति महादेव मी ऐसी वाणी सुन, जागकर, चन्द्रशेखर शङ्कर की यह वाणी (आज्ञा) अलङघनीय है, इस हेतु से युद्ध करने की ठान ली।