यावद्विरसद्रव्यादनजन्यरोगग्रस्तेन्द्रियगोचरभ्रमज्ञानं मनोविषयकं मानसिकभ्रमानुभवज्ञानगोचरसामग्रीविशिष्टत्वात् । तज्ज्ञानविषयकं पिण्डं तद्भ्रमनिवर्तकरसवद्द्रव्यादनपरिपालनम् । भ्रमविषयकं ज्ञानं तन्निवर्तकरसद्रव्येभ्यो [१]रक्षणीयमित्यर्थः ॥
ननु भ्रमोत्पादकविरसद्रव्यादनाभावकार्यहेतुभूतार्थादने सति अदोषास्सन्तः तत्तदिन्द्रियार्थसन्निकर्षे जाते सति तद्वति तत्प्रकारकत्वानुभवात् तत्र भ्रमो न जायते, संशयज्ञानजनकसामग्र्यभावात् । भ्रमप्रत्ययविषयगोचरार्थविषयकज्ञानगोचरज्ञानानुभवेन तस्य भ्रमाद्यभावविषयकत्वात् । तज्ज्ञानविषयकपिण्डस्य भ्रमसंशयज्ञानविषयकत्वेन यत्किंचिद्द्रव्यादनकार्यासंभव इत्याह-- अदोषेति ।
अदोषजातपिण्डं [२]क्वचिन्निवर्तयेत् ॥ २७ ॥
आशया दुष्टास्सन्तः इन्द्रियार्थसन्निकर्षे सति भ्रमविषयकमेव गोचरीकुर्वन्ति । तत्साधारणज्ञानविषयकस्य अदोषग्रस्तेन्द्रियविषयकज्ञानगोचरत्वादित्यर्थः ॥
निमित्ते हि पथ्यं भेषजम् ॥ २८ ॥
ननु निमित्ते सति रोगो जायते । तत्रैव पथ्यं कार्यम् । तत्र लघ्वन्नादनं पथ्यम् । तथाच यदा आशया दोषदुष्टा भवन्ति तत्र हीनादने आशयानां रिक्तत्वमस्तीति वक्तव्यम् । 'रिक्ते वायुः प्रकुप्यते’ इति सूत्रार्थानुसारेण तत्र वायोः प्रबलत्वात् सम्यग्गत्याशयाभावत्वाच्च इन्द्रियाणि सविकाराणि भवान्त । तत्र पथ्यं भेषजमिति सू्त्रं न सङ्गतमित्यस्वरसादाह-- यावदिति ।