पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
292
आयुर्वेदसूत्रे
अग्निं वा वादित्यः सायं प्रविशति । तस्मादग्निर्दूरान्न ददृशे । सूर्यश्चक्षुर्गमयतु । सूर्यो मे चक्षुषि [१]श्रितः । चक्षुर्हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि ।
३१
 
मनोविकाराकारकमन्नमद्यात् ।
३२
 
रसवद्द्रव्यं शिरोनिरामयकारकम् । सर्वेन्द्रियाह्लादकम् ।
३३
 
दुस्संयोगवर्णमनोद्रव्यं पञ्चप्राणाधारकम् ।
३४
 
चन्द्रमा मे मनसि श्रितः । मनो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि ।
३५
 
अब्द्रव्यं सर्वशरीरपोषकम् ।
३६
 
रेतो वा आपः । आपो मे रेतसि श्रिताः । रेतो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । रेतसो वा तस्मिन्नेतो दधाति ।
३७
 
विगन्धविगतरसालवालं सर्वशरीरपोषकम् ।
३८
 
पृथिवी मे शरीरे श्रिता । शरीरं हृदयं । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि ।
३९
 
यावत्सरसवद्द्रव्यं निरामयकारकम् ।
४०
 
यावत्तनूरुहस्तावत्तनूंषि भिभ्रति ।
४१
 
ओषधयः सोमे राज्ञि प्रविष्ठाः । पृथिवी तनुम् । ओषधिवनस्पतयो मे लोमसु श्रिताः । लोमानि हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि ।
४२
 
इन्द्रो मे बले श्रितः । बलं हृदये । हृदयं मयि । अहममृते । अमृतं [२]ब्रह्मणि ।
४३
 


  1. तै. ब्रा. III. 10, 8, 17.
  2. A कोशे नेदं ‘इन्द्रो मे-ब्रह्मणि' इति वाक्यं दृश्यते ।