पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
280
आयुर्वेदसूत्रे
शौण्डं तिक्तरसं कफमुखरोगहरं वृष्यं बल्यं रसायनम् ।
२८
 
कोलिकं कटुरसं वातपित्तान्यमुखरोगजित् ।
२९
 
गुवाकः[१] कषायरसो भेदिमोहकृत्कफ[२]पित्तहरः ।
३०
 
नीली[३] तिक्तरसः वृष्यादिविषप्रमोहजित् ।
३१
 
तपस्विनी तिक्तरसा श्लेष्मामयरक्तपित्तविनाशिनी ।
३२
 
धरुषी[४] तिक्तरसो विषकुष्ठविनाशकः ।
३३
 
शैलेयकं तिक्तरसं विषमुर्च्छाभ्रमपवनपित्तविनाशकम् ।
३४
 
वालुकं[५] तिक्तरसं[६] वातपित्तशिरोरुङ्नुत् ।
३५
 
लाक्षा तिक्तरसा कफकुष्ठज्वरभ्रमविनाशिनी ।
३६
 
सुप्रभा तिक्तरसा ज्वरविदाहापहा गर्भस्थामयान् हन्ति ।
३७
 
ताम्रपुष्पी[७] कषायरसः रक्त[८]पित्तातिसारजिद्गर्भसंस्थापनः[९]
३८
 
पौण्डरीकं[१०] मदभ्रमरक्तपित्तातिसारजित् ।
३९
 
सिंहिका कटुरसा उष्णज्वरारोचकानाहघ्नी ।
४०
 
तिन्त्रिका[११] कटुरसा कफमेहामयापहा वृष्यबृह्मणी ।
४१
 
शैलूषः स्वादुरसः सर्वशूलछर्द्यतिसारहरा दीपनपाचनबल्या ।
४२
 
तिन्त्रिका कटुरसा शोभपाण्डुकफानिलघ्नी दोषापहा ।
४३
 
तिन्दुकः[१२] कटुरसः कफामयापहः ।
४४
 


  1. गुवा--B.
  2. मोहहृत्कफ--A.C.
  3. निरि--A.&.C.
  4. धरुषिः--C.
  5. B कोशे पदद्वयमिदं त्यक्तम्.
  6. B कोशे पदद्वयमिदं त्यक्तम्.
  7. ताम्रपुष्पं--A.&.C.
  8. कफ--A.&.C.
  9. सारद्विड्भवसंस्थापिनी--B.
  10. हेण्डलिकं--B.
  11. तन्त्री दन्ती--B.&.CA.
  12. टुन्दुकः--A. डुन्दुकः--C.