आरोहणं गगनवर्त्मसु व्रजताम् ॥ ८२ ॥
खगानामारोहणकर्म अनलानिलात्मकद्रव्यगुणाधिकशरीरत्वात् । खे गमनं सूक्ष्मार्थगोचरत्वं शीतोष्णसुखसहिष्णुत्वं च तेन लभ्यत इयर्थः ॥
भूचरशरीराणां तु पार्थिवावयवाधिक्यशरीरत्वात् भूमिसञ्चारसहिष्णुत्वं स्नेहद्रव्यादनजातायुस्तेजारेतोधारणं भवतीत्याह-- घृतेति ।
घृतप्लुतान्नादनाद्वायुस्तेजोरेतांसि दधाति ॥
खेचराणां शरीराणां स्वतस्सिद्धधातुदार्ढ्यवत्त्वम् । भूचरशरीराणां तन्न रोचते धातुदार्ढ्यं । तत्तद्रसवद्दव्यादनजातौपाधिकधातुदार्ढ्यं न स्वभावतः प्राप्तत्वादित्यर्थः ।
ननु घृतप्लुतान्नादनं आयुराद्यभिवर्धकमित्युक्तम् । तच्चिन्त्यं, अधिकघृतप्लुतान्नादनस्य अजीर्णकार्यहेतुकत्वात्, आयुस्तेजोरेतसां क्षीणत्वकारणं च, गुरुत्वकार्यस्य च प्रतीतत्वात् । यानि द्रव्याण्यजीर्णकारकाणि तानि तु क्षणत्वकारकाणि । एवमन्वयव्यतिरेकप्रमाणाभ्यां सिद्धत्वादित्यत आह-- योग्येति ।
योग्यद्रव्योपयोगैरभिवर्धते ॥ ८४ ॥
व्याधिनिवर्तकत्वं योग्यद्रव्याणां योगः, तन्निवर्तकरसवद्द्रव्यत्वं रोगाभावकार्यस्य निवर्तकत्वं, यद्द्रव्योपयोगनिवर्तकत्वं नाम रोगाभावकार्यस्य हेतुत्वमेव । अभिवर्धन्तामवयवा इत्यर्थः ।
ननु इदमप्यनुपपन्नं, योग्यायोग्यद्रव्योपयोगकर्मकरणं यावद्रोगाभावकार्यहेतुकाप्रतियोगिकार्यफलप्रापकद्रव्यत्वात् यावद्रो