एतत् पृष्ठम् परिष्कृतम् अस्ति
२४९
पञ्चमोऽङ्कः ।
राक्षसः-( विलोक्य[१] ।) अये, सिद्धार्थकः । भद्र, किमिदम् ।
सिद्धाथर्कः--( [२]सबाष्पं लज्जां नाटयन् ।) पसीददु अमचो । [३]ताडीअन्तेण मए ण पारिदं रहस्सं धारिदुं । (क)
राक्षसः--भद्र, कीदृशं [४] रहस्यामिति न खल्ववगच्छामि ।
सिद्धार्थकः–[५]णं विष्णवेमि ताड़ीअन्तेण मए ( इत्यद्धोंक्ते समयमधोमुखस्तिष्ठति ।) (ख) ।
मलयकेतुः--भागुरायण, स्वामिनः पुरस्ताद्गीतो लज्जितो [६]वा नैप कथयिष्यति । [७]स्वयमेवार्यस्थ कथय ॥
भागुरायणः-यदाज्ञापयति कुमारः । अमात्य, एष कथयति [८]यथाहममात्येन लेखं दत्वा वाचिकं संदिश्य चन्द्रगुप्तसकाशं प्रेषित इति ।
( क ) प्रसीदत्वमात्यः । ताड्यमानेन मया न पारितं रहस्यं धारयितुम् ।
( ख ) ननु विज्ञापयामि ताड्यमानेन मया ।
‘ननु विज्ञापयामि ताडीअन्तेण' इति अस्यार्धोक्तस्य पूरणवाक्यम् 'एवमतिताड्यमानेन' इति वक्ष्यमाणं द्रष्टव्यम् ।
- ↑ Om, P. and E, which also om. अ...कः; R. reads सि... क and G.om. भ...म्.
- ↑ Om. E.; पसीददु twice in B. N. G. which also read प्प for: प°
- ↑ अमञ्च before this B. E. N.; अमञ्चस्स before रहस्सं B; A. reads धारइदुं and G. धारयिदुं
- ↑ तत् before this B. N.
- ↑ ननु B. N; E. omits all this from मए down to Siddhárthaka's next speech. N. G. add here ण पारिदM रहरस्सं धारिदं अमच्चस्स.
- ↑ °जितश्च B. E. N. For नैप A.reads नैव; भीतलज्जितो H.
- ↑ B. E. N. read अतः and G. यतः before this.; B. E, N. G. read आर्याय for आर्यस्य.
- ↑ °त्यराक्षसेन B. E. N.; अहम् om. P; च before संदिश्य B. E. N. H.