पृष्ठम्:Mudrarakshasa.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५७
पञ्चमोऽङ्कः

 मलयकेतुः--(लेखमलंकरणस्थगिकां[१] च निर्दिश्य ।) इदमिदानीं किम् ॥

 राक्षसः-(सवाष्पम् ।) विधिविलसितम्[२] । कुतः ।

भृत्यत्वे परिभावधामनि सति स्नेहाप्रभूणां सतां
पुत्रेभ्यः [३]कृतवेदिनां कृतधियां येषां न भिन्ना वयम् ।
ते लोकस्य परीक्षकाः क्षितिभृतः पापेन येन क्षता-
स्तस्येदं वि[४]पुलं विधेर्विलसितं पुंसां प्रयत्नच्छिदः ॥ २० ॥

 मलयकेतुः--([५]सरोषम् ।) किमद्यापि निहूयते एव । विधेः किलैतद्वयवसितम्, न लोभस्य । अनार्य,

कन्यां तीव्रविषप्रयोगविषमां कृत्वा [६]कुतघ्न त्वया
 विश्रम्भप्रवणः [७]पुरा मम पिता नीतः कथाशेषताम् ।


 इदमिदानीं किमिति । अयं कस्य दोष इत्यधिक्षेपः ।

 भृत्यत्वे इति । परिभवो न्यक्कारः तद्विषयो भृत्योऽप्यहं प्रभभिर्न्र्यक्कारं कर्तुं समर्थैरपि यैः कृतज्ञैः सर्वज्ञैः स्वामिभिरपत्यनिर्विशेषतया दृष्टोऽस्मि ते दैवेन हता इत्यर्थः ॥ २० ॥

 कन्यामिति । मन्त्राधिकारे मौर्यस्य मत्रित्वे आहितगौरवेण। धृताभिलाषेणेत्यर्थः । रिपौ चन्द्रगुप्ते प्रलयाय नाशाय मांसवद्विक्रेतुमारब्धा नियोजिता इत्यन्वयः । इदानीमपि राक्षसेनानेकराजकार्यकुशलेन किमपि


  1. G. has रणं च स्थ; E. इणस्थमिकाँ च; B. N. रणस्थलिकां च; B. N.G. read विनिर्दिश्य and G, Treads किमू before इदमिदानीमू,
  2. B. N. G read विधेर्विं° and B. E. N. G. add इदं न चाणक्यस्य.
  3. कृतिचे G; and B.N. read कृतधियो for next word, and अभिन्ना for न भिन्ना.
  4. विफलम् R. and विधेर्व्यवसितम् R.; प्रयत्नो वृथा for* प्रयत्नच्छिदः P.
  5. om. M. R; सक्रोधम् B. E. N; B. reads कथम् for किम् and om. एव and विधेर्विलसितमिदं न मर्मतिः E. agrees with our text except in reading निहत एव, and विलसितम् for व्यवसितम्; G. also agrees with our text but adds किम् before किल and reads विल° for व्यव.°
  6. कृतात्मना N. E.
  7. B. E. have
    तदा for पुरा; M. R, read पिता मम पुरा.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२४६&oldid=327756" इत्यस्माद् प्रतिप्राप्तम्