पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
157
संकरसरः (१२१)

मिति न विविक्तालंकारद्वयसमावेशोस्तीति वाच्यम्, दिव्यलोकस्थितसंपत्समृद्धिवर्णनादिष्वतिशयोक्त्यसंस्पृष्टस्य उदात्तस्य शौर्यौदार्यदारिद्र्यादिविषयकातिशयोक्तिवर्णनेषूदात्तासंसृष्टाया अतिशयोक्तेश्चान्योन्यविविक्तत्वेन विश्रमात् । तयोश्चेहार्थवशप्राप्तसमावेशयोर्नाङ्गाङ्गिभावलक्षणस्संकरः, एकेनान्यस्यानुत्थितेः । स्वातन्त्र्यपारतन्त्र्यविशेषावगतेश्च । नापि समप्राधान्यं, यैश्शब्दैरिह समृद्धिमद्वस्तु प्रतिपाद्यते तैरेव तस्यैव वस्तुनोऽसंबन्धे सबन्धरूपस्य प्रतिपाद्यमानतया विभिन्नप्रतिपादकशब्दव्यवस्थितार्थभेदाभावात् । नापि संदेहसंकरः, एकालंकारकोट्यां तदन्यालंकारकोटिप्रतिक्षेपाभावात् । तस्मादिहोदात्तातिशयोक्त्योरेकवाचकानुप्रवेशलक्षणस्संकरः । एवमुक्तसमृद्धेर्भगवत्कटाक्षितताहेतुकत्वात्कव्यलिङ्गं चोक्तसंकरैकवाचकानुप्रविष्टमिति विच्छित्तिविशेषश्च ॥

 अत्र समप्राधान्याभाववर्णनं च कुवलयानन्दकृतामनुरोधेन । रसिकरञ्जनीकारस्तु ‘इदं चिन्त्यं । समप्राधान्यसंकरमभ्युपगच्छतो भिन्नशब्दव्यवस्थितार्थभेदस्समप्राधान्यप्रयोजक:। आग्नेयादावुत्पत्तिविधिभेदसत्त्वेऽपि ‘सप्तदश प्राजापत्यान्पशूनालभते' इत्यादौ विधिभेदाभावेऽपि समप्राधान्यव्यवस्थितेः । तद्वदत्रापि प्रतिपादकशब्दभेदाभावेऽपि प्राधान्यसंभवात् । इतोऽपि न समप्राधान्यसंकरसंभवः, एकवाचकानुप्रवेशसंकरस्य निर्विषयतापत्तेः । तत्रानुप्रविष्टयोरलंकारयोरेकजातीयचमत्कारप्रयोजकतया समप्राधान्यस्यैवोपपत्तेः’ इत्यभाणीदित्यलम् ॥

 द्वितीयश्शब्दार्थयोरेकवाचकानुप्रवेशसंकरस्समप्राधान्यनिरूपणावसर एवोदाहृतः । तृतीयश्शब्दार्थयोरेकवाचकानुप्रवेशसंकरो यथा--