पृष्ठम्:Mudrarakshasa.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
मुद्राराक्षसे

अथवा क: संदेहः ॥

मुद्रा तस्य कराङ्गुलिप्रणयिनी सिद्धार्थकस्तत्सुहृ-
 त्तस्यैवापरलेख्यसूचितमिदं लेख्यं[१]प्रयोगाश्रयम् ।
सुव्यक्तं शकटेन [२]भेदैपटुभिः संधाय सार्द्ध परै-
 [३]र्भर्तृस्नेहपराङ्मुखेन कृपणं प्राणार्थिना चेष्टितम् ॥ १५ ॥

 मलयकेतुः--(विलोक्य[४] ) आर्य, अलंकारत्रयं श्रीमती यदनुप्रेषितं तदुपगतमिति[५] यल्लिखितं तन्मध्यात्किमिदमेकम् । (निर्वण्र्यात्मगतम् ।) [६]कथं तातेन धृतपूर्वमिदमाभरणम् । (प्रकाशम् ।) आर्य,कुतोऽयमलंकारः ।

 राक्षसः---वणिग्भ्यः [७]ऋयादधिगतः ॥

 मलयकेतुः--विजये, अपि प्रत्यभि[८]जानासि भूषणमिदम् ॥

 प्रतीहारी--(निर्वर्ण्[९]य सबाष्पम् ।) कुमार, कहं ण पञ्चभिजायामि । [१०]इदं सुगीहीदणामधेएण पव्वदीसरेण धारिदपुव्वं । (क)


 ( क ) कथं न प्रत्यभिजानामि । इदं सुगृहीतनामधेयेन पर्वतेश्वरेण धारितपूर्वम् ॥


 यशश्च परिमृज्य चलेषु नश्वरेष्वर्थेषु पुत्रदारादिषु च लुब्धः स्यादित्यर्थः ॥ १४ ॥

 मुद्रेति । प्रयोगाश्रयं कूटप्रयोगरचितमित्यर्थः । कृपणं दीनं कृत्यं चेष्टितं व्यवसितम् ॥ १५ ॥


  1. पत्रम्. B. N. H.
  2. टुना. B. N.
  3. भर्त्तुः A. R M. B.; पणप्रा for "पूणं प्रा P.
  4. B. E. N. G. om. this; P. om. आर्यः; R. G. E. read अलंकरण for अलंकार; °मतो for °मता B. N.
  5. B. N. add आर्येण here; °देकं किमिदम् for °त्किमिदमेकम् BN.
  6. कष्टम्. E.; A. P. om इदम्.
  7. N. om. द; R, M.read °गतम्.
  8. °नाति भवती भू°. B. E. N.
  9. E. has सबाष्पं निर्वण्र्य; कधं for कहं E. and G, which also reads पच्चभिजाणिस्सं, E, has पञ्चभियाणामि.;P,°भिजाणा; B. N. °भिआणिस्सं°,
  10. इमं क्खु B. N.; इदं ता (?) खलु : इमं G.; एदं P. which also reads सुगिही ; E, reads °नामधेयेण;R. णामहेयेण; G णामधेयेण; °व्वदेस° for व्वदीस R; for पुव्वं., B. N. read पूर्वं
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२४३&oldid=327696" इत्यस्माद् प्रतिप्राप्तम्