पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
284
अलङ्कारमणिहारे

ल्लभामित्यपि व्यज्यते । प्रसाधयति अलंकरोति । अलं कूलंकषधीः प्रबन्धगतचमत्कृतिसर्वस्ववेदी उचितानुचितविमर्शकारीत्यपि व्यज्यते । सः कृती कुशल: इतरकृतीः अन्यानसारान् प्रबन्धान् इतरवधूरित्यपि व्यज्यते । कथं लुलोकिषते द्रष्टुमपि नेच्छति किमुत पश्येदिति । अत एवात्र समासोक्त्यलंकारः ॥

 अभ्यस्तैकैकविद्याः क्वचन मम कृतिं वीक्ष्य हृष्यन्तु मा वा तत्तादृक्सर्वविद्यापरिचयनिपुणा हन्त हृष्यन्त्यवश्यम् । प्रायो मात्सर्यमेषां न खलु विधिवशाद्यद्यमीषामपि स्यात् किं कार्यं श्रीहयास्यो जयति गुणनिधिस्सर्वविद्यानिषद्या ॥

 विद्याविहृतिनिषद्या हृद्या तुरगानना धुतावद्या । हृद्याहिता प्रसद्यादाद्या सा देवता बुधासाद्या ॥ २४०५ ॥

ब्रह्माणं प्रविधाय नाभिकमले वेदानपि प्राहिणोद्यत्तस्मै मधुकैटभोत्थविपदो यत्त्रायते स्माथ तान्। तद्धामावतु पाञ्चकालिकपथप्रस्थाननिष्ठैर्यतिश्रेष्ठश्रीनिगमान्तदेशिकमुखैर्दत्तार्हणं देशिकैः ॥

 या वाण्या यतिराजराजवशगा चक्रेऽर्चिता या चिरात् प्राचार्यैर्निगमान्तदेशिकमणिश्रीब्रह्म