पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
224
अलङ्कारमणिहारे

व्यानाम्न इति भावः नाम्नां आम्नानात् अभ्यासात् अपरा अन्या नराणां मानवानां विपदः संस्मृतिरूपापदः अपनयने उत्सारणे गतिः उपायः नास्ति त्वन्नामसंकीर्तनमेव विपदुत्तरणोपाय इत्यर्थः। यथोख्यते--

कलेर्दोषनिधे राजान्नस्ति ह्येको महान्गुणः ।
कीर्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत् ॥

 इति । अत्राद्यतृतीयपादयोरन्ते वर्णद्वितयस्य एकान्तरिततया परिवर्तनम् । द्वितीयतुरीययोस्तु अव्यवहिततया वर्णचतुष्टयस्येति बोध्यम् ॥

अर्धस्य प्रातिलोम्येनावृत्तिर्यथा--

 सा भायादनघतरा कान्ताशाऽतीव जनवरामोदा । दामोरा वनजवती शान्ताकाऽऽरातघनदया भासा ॥ २३०५ ॥

 साभायात् अनघतरा कान्ताशा अतीव जनवरामोदा दामोराः वनजवती शान्ताका आरातघनदया भासा । इति पदच्छेदः । अनघतरा अपहतपाप्मा कान्ताशा कान्ते वल्लभे भगवति आशा अभिलाषो यस्यास्सा भगवद्विषयकनिरतिशयप्रीतिशालिनीति भावः । यद्वा आशः व्याप्तिः ‘अशू व्याप्तौ’ भावे घञ् । कान्तस्य आश इव आशो यस्यास्सा ‘त्वया च विष्णुना चाम्ब जगद्व्याप्तं चराचरम्' इत्युक्तेः । अतीव अतिमात्रं जनवरामोदा जनवराणां नरश्रेष्ठानां आमोदा आमोदयित्री आङ्पूर्वकान्मोदयतेः पचाद्यच् । यद्वा वरः आमोदः प्रीतिर्यस्यास्सा जनेषु वरामोदा निरतिशयप्रीतिरित्यर्थः । अथवा वरैः तत्तदभिलषितैर्वरैः आमोदा आमोदयित्री जाननां वरामोदा दामोराः दाम कुसुममाल्यं उरिस यस्यास्सा