पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
64
अलंकारमणिहारे

परं स्थानं परत्वेन सूत्रोक्तं देशसामान्यरूपस्थानं च प्रकरणादपि प्रस्तावादपि उभयाकाङ्क्षारूपप्रकरणादपि च हीनबलं दुर्बलं हि । पारदौर्बल्यस्य सूत्रितत्वादिति भावः । अत्र उक्तरीत्याप्रकरणस्थानशब्दवाच्यार्थद्वयश्लेषभित्तिकाभेदाध्यवसायदत्तहस्तेन प्रकरणेन विवक्षितार्थसमर्थनम् ॥

 स्थानं यथा--

 स्थानेन व्यपदिष्टा भाति समाख्याऽपि वेङ्कटेश तव । यत्कथितं जैमिनिना स्थानं बलवत्तरं समाख्यायाः ॥ २१०० ॥

 हे वेङ्कटेश! तव श्रुतिशतप्रथितवैभस्येति भावः । समाख्याऽपि नामापि स्थानेन त्वदावासभूतवेङ्कटाद्रिलक्षणस्थानेन व्यपदिष्टा व्यपदेशं ख्यातिं प्राप्ता "वसिष्ठव्यपदेशिनः’ इतिवत् वेङ्कटाद्रिरूपस्थानपुरस्कारेणैव हि तव वेङ्कटेश इत्यभिधेति भावः । यत् यस्मात् जैमिनिना समाख्यायाः यौगिकशब्दरूपसमाख्याया: नाम्नश्च तदपेक्षयेत्यर्थः । स्थानं देशसामान्यरूपं आवासभूतं च स्थानमेव बलवदिति कथितं परदौर्बल्यसूत्रेण । तस्मात् तव समाख्याऽपि स्थानेन व्यपदिष्टा भातीति योजना । अत्र समाख्यास्थानशब्दप्रतिपाद्यार्थद्वयश्लेषमूलाभेदातिशयैकीकृतेन स्थानेन भगवत्समाख्याया व्यपदेश्यत्वं समर्थितम् ॥

 समाख्या यथा--

 वेधास्स कृत्तिवासास्सान्ता वृद्धश्रवाश्च विश्वात्मन् । नान्तस्त्वमत्र मानं भवति हि युष्मत्समाख्यैव ॥ २१०१ ॥