क्रतुनयादिति भावः । ‘निरञ्जनः परमं साम्यमुपैति’ इति श्रुतिरत्रानुसंधेया । यत् यस्मात्कारणात् पदज्ञाः व्याकरणविदः अनुबन्धेन 'ऋहलोर्ण्यत्' इत्यादौ कृतेन इत्संज्ञार्थकणकाराद्यनुबन्धेन कृतं असारूप्यं ‘पोरदुपधात्' इत्यादिविहितस्य यतः असरूपत्वं न भवतीति वदन्ति ‘नानुबन्धकृतमसारूप्यम्’ इति परिभाषणादिति भावः । तथाच शप्यं लभ्यमित्यादौ शपिलभ्यादेः ‘पोरदुपधात्' इत्यनेन विहितो यत्प्रत्ययः ‘ऋहलोर्ण्यत्' इति विहितस्य ण्यतः बाधक एव भवति । न तु 'वा सरूपोऽस्त्रियाम्' इत्यनेन असारूप्यनिबन्धनवैकल्पिकबाधकत्वं प्राप्नोतीत्यवधेयम् । अत्र श्रुतिस्मृतिशतप्रमाणसद्भावेऽपि चमत्कारातिशयाय ‘नानुबन्धकृतमसारूप्यम्’ इति शाब्दिकपरिभाषायाः श्लेषेणार्थान्तरं परिकल्प्य प्रमाणीकरणम् ॥
यथावा-
त्वां परमवरं चान्यं समौ वदन्नापराध्यति मुरारे । पूर्वपरावरसूत्रे परावरौ पाणिनिर्यदाह समौ ॥ २०७८ ॥
उत्कृष्टं त्वां त्वत्तोऽपकष्टेन देवतान्तरेण तुल्यं वदतो जनस्यापराधाभावरूपेऽर्थे ‘पूर्वापरावरदक्षिणोत्तर’ इत्यादिपाणिनीयस्मृतेः प्रमाणतयोपन्यासः । पूर्वोदाहरणेषु पाणिनिस्मृतिरभिमतार्थे प्रमाणीकृता । इह तु--
यस्तु नारायणं देवं सामान्येनाभिमन्यते । |