पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
26
अलंकारमणिहारे

 यथावा--

 लोपमुपयान्ति तापास्तमांसि सकलानि यद्गळन्तितमाम् । तदमीषां लसति सतां हृदयाकाशे विधुस्सदा विमले ॥ २०३८ ॥

 अत्र साध्ये विधुविलसनेनानुमितेराक्षेपात्प्रतीयमानत्वम् । सन्तो हृदयाकाशविलसद्विधुत्ववन्तः लुप्ततापत्वात् गळिततमस्कत्वाच्चेति प्रयोगः । श्लेषरूपकसंकीर्णमिदम् । यत्र साध्यस्याप्यनुपात्तत्वे लिङ्गमात्रस्योपात्तत्वेनागूर्यमाणं साध्यं तत्र ध्वन्यनुमानम् ॥

 यथावा--

 बृंहन्ति दन्तिनिवहा ह्रेषन्ते हन्त सन्ततं वाहाः । गृहचत्वरेषु महतां बहुसत्वरगा रथाश्च विहरन्ते ॥ २०३९ ॥

अत्र महतां लक्ष्मीकटाक्षपात्रत्वरूपसाध्यस्थानुमानं ध्वन्यते ॥

इत्यलंकारमणिहारे अनुमानसरस्त्रयोदशोत्तरशततमः.


अथोपमानसरः. (११४)


संज्ञायास्संज्ञिनश्चापि संबन्धप्रत्ययो हि यः । सादृश्यज्ञानकरण उपमानं तदुच्यते ॥

 सादृश्यज्ञानकरणकस्संज्ञासंज्ञिसंबन्धप्रत्यय उपमानम् । तदेव चमत्कारि उपमानालंकारः ॥