पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
28
अलंकारमणिहारे

 स्वोक्तार्थे श्रुत्यादीनां प्रमाणतयोपन्यासश्शब्दप्रमाणालंकारः । शब्दपदार्थमाह-- श्रुतीति । आदिशब्देन पुराणाभाणकलौकिकवाक्यादीनां संग्रहः ॥

 तत्र श्रुतिरूपशब्दो यथा--

 नावातरः फणिगिरौ नाथ यदि त्वां कथं नु पश्येम । विनुयाम वा श्रुतिर्यं दुर्ग्रहमवदन्न चक्षुषेत्यादिः ॥ २०४२ ॥

 अत्र भगवतः परस्य ब्रह्मणः चक्षुरादीन्द्रियाग्राह्यत्वे 'न चक्षुषा गृह्यते नापि वाचा' इत्यादिश्रुतिः प्रमाणत्वेनोपन्यस्ता । आदिशब्देन ‘यत्तदद्रेश्यमग्राह्यम्’ इत्यादेर्ग्रहणम् ॥

 यथावा--

 वेत्सि मम भक्तिमवने शक्नोषि तथाऽप्युपेक्षसे कस्मात् । सर्वेश्वर श्रुतिस्त्वां सर्वज्ञं ह्याह सर्वशक्तिं च ॥ २०४३ ॥

 अत्र भवतः ममोपेक्षायां मद्भक्त्यज्ञानं वा रक्षणाशक्तत्वं वेति विकल्प्य तदुभयमपि न संभवतीति ज्ञापयितुं ‘यस्सर्वज्ञस्सर्ववित् । पराऽस्य शक्तिर्विविधैव श्रूयते' इति श्रुतिरूपं प्रमाणमुपन्यस्तम् ॥

 यथावा--

 त्वामद्वितीय इति यो नारायण वेद स भवति भविष्णुः । त्वन्निभमातनुषे तं तन्निगमान्तस्स विष्णुरिति वदति ॥ २०४४ ॥