पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
18
अलंकारमणिहारे

 यथावा--

 पुरुष तव पौरुषेण द्विषतामवधीरितं यशो मन्येऽहम् । यदिदं योषितमादावविदं शोषितमथ स्वतः क्लीबं च ॥ २०३० ॥

 हे पुरुष निरुपाधिकपुरुषशब्दवाच्य! हे भगवन्नित्यर्थः ।

भगवानिति शब्दोऽयं तथा पुरुष इत्यपि ।
निरुपाधी च वर्तेते वासुदेवे सनातने ॥

 इति स्मरणात् । अनेन कारणत्वमपि ज्ञापितं ‘पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरुषत्वम्' इति निर्वचनात् । तेन च सर्वज्ञत्वसर्वशक्तित्वाद्याक्षेपकेण क्वाप्यपरिभाव्यत्वादिकं द्योत्यते । तव एवंविधस्येति भावः । पौरुषेण पुरुषोचितेन भावेन कर्मणा वा अप्रधृष्यत्वादिना तेजसा वा ‘पौरुषं पुरुषस्य स्याद्भावे कर्मणि तेजसि' इति मेदिनी । द्विषतां तव द्वेषिणां यशः अवधीरितं मन्ये । यत् यस्मात् इदं यशः एतच्च कर्म । द्विषतां कीर्तिमित्यर्थः । आदौ पूर्वं योषितं स्त्रियं अथ अनन्तरं कालान्तरे इति भावः । शोषितं शोषं प्रापितं व्यपगमितस्त्रीत्वमिति भावः । स्वतः स्वयमेव क्लीबं नपुंसकं च अविदं । यदिदं यशः पूर्वमेव स्त्रीत्वेन शोषितत्वेन क्लीबत्वेन चाज्ञासिषं तन्मन्ये त्वत्पौरुषेणावधीरितमेवेत्यर्थः । पुरुषोत्तमपौरुषेण स्त्रीपूर्वस्य निसर्गतश्शोषितस्य षण्डस्यावधीवणमीषत्करमिति भावः । वस्तुतस्तु यशः यश इति पदं आदौ योषितं यः यकारः उषितोस्मिन्निति तथोक्तं अथ अनन्तरं शोषितं शः शकारः उषितो यस्मिंस्तत्तथोक्तं क्लीबं नपुंसकलिङ्ं च अविदं यशश्शब्दमेवंरूपमज्ञासिषमित्यर्थः । शब्दार्थयोस्तादात्म्यम् । अत्र द्विषां यशसो नियमेनावधीरि