पृष्ठम्:Mudrarakshasa.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५५
पञ्चमोऽङ्कः

 मलयकेतुः--(सबाष्पम् ।) हा तात् ॥


एतानि तानि तव [१]भूषणवल्लभस्य
 गात्रोचितानि कुलभूषण [२]भूषणानि ।
यैः [३]शोभितोऽसि मुखचन्द्रकृतावभासो
 नक्षत्रवानिव [४] शरत्समयप्रदोषः ॥ १६ ॥


 राक्षसः-( [५]स्वगतम् ।) कथं पर्वतेश्वरेण धृतपूर्वाणीत्याह । व्यक्तमेवास्य भूषणानि । ([६]प्रकाशम् ।) एतान्यपि चाणक्यप्रयुक्तेन वणिग्जनेनामासु विक्रीतानि ॥

 मलयकेतुः-आर्य, तातेन धृत[७]पूर्वाणां विशेषतश्चन्द्रगुप्तहस्तगतानां वणि[८]ग्विंक्रय इति न युज्यते । अथ वा युज्यत एवैतत् । कुतः। <poem> चन्द्रगुप्तस्य विक्रेतुरधिकं [९]लाभमिच्छतः ॥ कल्पिता[१०] मूल्यमेतेषां क्रूरेण भवता वयम् ॥ १७ ॥

 राक्षसः-(स्व[११]गतम् ।) अहो सुश्लिष्टोऽभूच्छत्रुग्रयोगः । कुतः ।


 एतानीति । वल्लभानि प्रियाणि भूषणानि यस्येति बहुव्रीहिः । शेषं स्पष्टम् ॥ १६ ॥


  1. वल्लभभूषणस्य A.. P. E.; गुणवल्लभ वल्लभानि H.
  2. भूषितानि. R.
  3. °तोभिमुख° G.; कृताभ्रभासो N.
  4. समये A. P. E.
  5. आत्मग° B.; तत्कथम्. G.; B. N, R. M. read °श्वर; B. E. N. om. व्य...णानि.
  6. R. G. om. प्र...एतान्यपि; E.. om. प्रकाशम् and reads सुव्यक्तमेतानि शा; 3. N. om. व्य...नि and read प्र...व्यक्तमेतान्यपि तेन चा; M. adds एव after प्रयुक्तेन and E.reads वणिच्यञ्जनेन; प्रकाशम् om. & व्यक्तं before एतानि, H.
  7. G. E. adds आभरणानाम्; B. N. आभरणविशेषाणाम्; P. has चाणक्य for चन्द्रगुप्त further on,
  8. °णिग्भ्यः क्रयाधिगम इति. B. E. N.; °क्रयाधिगत इति (?) M.; °क्रेयाधिगतमित R; B E. N. add एतत् after the first युज्यते and B. N. om,एतत्कुतः at the end of the Sentence, R. G. R. om. कुतः; क्रयादधिगमः H
  9. °च्छता E.
  10. °ल्पितम् G. N.
  11. A. E. B. N. read आत्मग; R. M.on, अहो. For शत्रु B. N. read एष.; G. om. it.; E, reads °ष्टोयं भूपणप्रयोगः; R. °भूच्छत्रुयोगः,
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२४४&oldid=327747" इत्यस्माद् प्रतिप्राप्तम्