पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
335
निरुक्तिसरः (१०१)

 यथावा--

 प्रद्योतनशतसदृशा विद्योतितदशदिशाऽम्ब तव महसा । विध्वंसितद्युतितया विद्युदपद्यत यथार्थमभिधानम् ॥ १९८० ॥

 विध्वंसिता द्युत् संपदादित्वात्क्विप् । द्युतिः यस्यास्सा विद्युत् निष्प्रभेत्यर्थः । पक्षे विशेषेण द्योतत इति विद्युत् ‘द्युत दीप्तौ’ ‘भुजभास’ इत्यादिना कर्तरि क्विप् । ‘विद्युत्तटिति संध्यायां स्त्रियां त्रिषु तु निष्प्रभे' इति मेदिनी । स्पष्ट मन्यत् । अत्र विद्युदिति नाम्नो योगेनार्थान्तरकल्पनम् ॥

 यथावा--

 आहूतोऽपि नियोद्धुं बाहुभ्यां तव निरस्तराहुभ्याम् । नागाद्भुजगोऽच्युत तन्नागं तं प्राहुरर्थतत्त्वज्ञाः ॥ १९८१ ॥

 अत्र नाग इति नाम्नः नागच्छतीति नाग इति योगादर्थान्तरं कल्पितम् ॥

 यथावा--

 त्वत्पदरुचिहरणात्तत्प्रहृतश्शीर्षेऽम्ब लोहितं मुञ्चन् । लोकान्तर्हित आसीद्यल्लोहितकस्तदेष शोणमणिः ॥ १९८२ ॥

 हे अम्ब! यत् यस्मात् त्वत्पदरुचिहरणाद्धेतोः शीषं तत्प्रहृतः तेन त्वत्पदेन अभिहतः अतएव लोहितं रुधिरं मुञ्चन् शीर्षे उद्वमन् सन् लोकान्तर्हितः लोके अन्तर्धानं गतः आसीत्