मा भैषीः पुत्र भद्रं ते शङ्खचक्रौ ददामि ते । |
इत्यादिवेंकटाद्रिमाहात्म्यान्तर्गतब्राह्मपुराणकथाभगवद्भाष्यकारका रितश्रीनिवासशङ्खचक्रपरिग्रहकथा चेहानुसंधेया । अत्र श्लाघ्यस्य भगवद्रामानुजाचार्यकारितश्रीनिवासशङ्खचक्रधारणरूपमहापुरुषचरित्रस्य वर्णनीयं वेंकटाद्रिं प्रत्युपलक्षकत्वम् ॥
यथावा--
स शिलोच्चयो विजयतां यत्रामृतदोऽप्यशेषविबुधानाम् । कंचन विबुधं तातेत्यामन्त्र्यायाचतामृतं जगज्जनकः ॥ १९५८ ॥
अनेकेषां विबुधानां देवानां विदुषां वा अमृतदः सुधाप्रदः निश्श्रेयसप्रदो वा जगज्जनकः श्रीनिवासः कंचन विबुधं श्रीशैलपूर्णनामानं महात्मानं विपश्चितं तातेति आमन्त्र्य संबोध्य अमृतं सुधां निश्श्रेयसं वा । वारीति तु तत्त्वम् । अयाचत दवीयस्तरात्तुम्बुरुतीर्थादनुदिनं स्वाराधनकृते तीर्थानयनकैंकर्य-