पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
315
वक्रोक्तिसरः (९६)

 अत्र गोपाल इत्यादि गौरीपरिहासवाक्यं कृष्णाभिप्रायगर्भं पशूनांपतिः क्व वेत्यादिना महेश्वरवृत्तान्ताविष्करणाभिप्रायपरतया श्रिया योजितम् ॥

 काक्वा यथा--

 वेगादागाः किं वा चिकीर्षसे कृष्ण ननु न जानेऽहम् । न विजानासि नतभ्रूरित्याश्लिष्यन् हरिर्जयति गोपीम् ॥ १९४१ ॥

 अत्र कस्य कार्यस्य चिकीर्षया तव वेगादागमनमिति न वेद्मीति ऋजुमतितयाऽनुयुञ्जानां व्रजललानां प्रति न विजानानासीति काक्वा अर्थान्तरकल्पनम् ॥

 काकुविकृतश्लेषाभ्यां मिळिताभ्यामपीयं भवति । यथा--

 प्रचुराजिपटीयांसं दाशरथे विप्रवर्णमुख्यं माम् । विद्धि प्रसन्नशस्त्रं बहुमन्ये भृगुज साधु विप्रं त्वाम् ॥ १९४२ ॥

 अयं भार्गवराघवयोस्संवादरूपश्लोकः । तत्र प्रचुरसमरपटुतरं ब्रह्मवर्णप्रमुखं निर्मलास्त्रं मां विद्धीति स्वस्य दुर्जयत्वमहीयस्त्वाद्यभिप्रायेण भार्गवोक्तस्य चरणत्रयस्य हे भृगुज ! साधु विप्रं त्वां बहुमन्ये इति काक्वा अहो तव ब्राह्मण्यमित्याकूतगर्भयाऽन्यधा योजनं भगवता राघवेण कृतम् । अत्रैव हे भृगुज ! त्वां साधु सम्यक् बहु बहुलं च विप्रं विगतप्रवर्णं मन्ये इति प्रवर्णोद्धारेणार्थान्तरकल्पनं च । तथा सति चुराजिपटीयांसं विवर्णमुख्यं सन्नशस्त्रमिति च निष्पद्यते । चुरा चौर्यं