पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
163
प्रहर्षणसरः (६९)

पेऽत्र वाक्यार्थे अभीप्सितार्थादधिकार्थलाभः स्पष्ट एव । अयमेव हि पूर्वेभ्यो विशेषो यदप्रस्तुतप्रशंसासंकीर्णत्वम् ॥

उपायसिद्धये यत्ने क्रियमाणे यदृच्छया ।
साक्षात्फलस्य लाभोऽपि प्रहर्षणमितीरितम् ॥

 फलानवाप्त्या तत्प्राप्तये तदुपायगोचरो यत्नो लोके प्रसिद्धः । तादृशयत्नादतर्किततत्फलस्यैव लाभो यत् सोऽपि प्रहर्षणमित्यर्थः । अयं तृतीयः प्रकारः ॥

 यथावा--

 त्वत्सेवनेन संपदमीप्सुस्त्वच्छिखरिसंमुखो मनुजः । तावत्पश्यति सिन्धुरबन्धुरमीश स्वमन्दिराळिन्दम् ॥ १६८३ ॥

 हे ईशेति संबोधनम् । अत्र गजान्तैश्वर्यलाभोपायभूतभगवत्सेवनसिद्ध्यर्थाच्छेषाचलाभिमुखप्रस्थानात् स्वमन्दिराळिन्द एव तादृशैश्वर्यलाभ इति तृतीयं प्रहर्षणम् । इदं च कार्यकारणपौर्वापर्यव्यतिक्रमरूपातिशयोक्त्युत्तम्भितम् ॥

 यथावा--

 यमुनातीरनिकुञ्जं कुष्णवशीकारमूलविचिचीषुः । प्राप्य हठात्तत्रागतममुमेव वशीचकार गोपवधूः ॥ १६८४ ॥

 अत्र भगवद्वशीकरणोपायभूतमूलिकार्थाद्यमुनातीरनिकुञ्जगमनात्तत्रैव भगवद्वशीकारलाभः । एवंच साक्षात्तदुद्देश्यकयत्नमं-