पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
167
उल्लाससरः (७१)

 यथावा--

 त्वत्कृपयाऽपरिभाव्यो लोकस्याग्रत उदारिताकारः । सर्वस्योपरिभाव्यो वर्वर्ति त्वत्पदाश्रितो भगवन् ॥ १६८९ ॥

 लोकस्य अपरिभाव्यः अतिरस्कार्यः अग्रतः उदारितः उदारीकृतः आकारः यस्य सः उवर्णेन दारितः भिन्नः अकारो यस्य सः तथोक्तः इति च । सर्वस्य लोकस्य उपरि भाव्यः श्रेष्ठतया माननीयस्सन् वर्वर्ति । पक्षे अपरिभाव्यशब्दः आदौ अवर्णच्यावनेन तत्रैव उवर्णन्यासेन च उपरिभाव्य इति निष्पद्यत इत्यर्थः । अत्र भगवत्कृपारूपगुणेन तत्पदाश्रितस्यापरिभाव्यादिगुणाधानम् । पूर्वं शुद्धं, इदं तु श्लेषसंकीर्णमिति विशेषः ॥

 यथावा--

 जलजन्तुकुले जातस्त्वद्दृष्टश्चेद्यदृच्छया जातु । हन्त कुलीरोऽपि नरो नेतस्स्यान्ननु कुलीन एव हरे ॥ १६९० ॥

 हे नेतः! सर्वेश्वर । जलजन्तूनां जडजन्तूनां च कुले जातः कुलीरः कर्कटकोऽपि जातु यदा कदा वा यदृच्छया न त्वैदंपर्येण त्वया दृष्टश्चेत् यादृच्छिकादिसुकृतपरिणतिवशात् कटाक्षितश्चेदित्यर्थः । कुलीनः सद्वंश्य इत्यर्थः । ‘महाकुलकुलीनार्यसभ्यसज्जनसाधवः' इत्यमरः । ‘कुलात्खः’ इति खः । नर एव मानुष एव स्यान्ननु भवेदेव । हन्तेति भगवत्कटाक्षप्रभावपरिचिन्तनजनितहर्षे । पक्षे कुलीरशब्दः नरः रेफरहितस्सन् नेतः तत्रैव नकारेण इतः संयुतश्चेत् कुलीन इति निष्पद्येतेत्यर्थोऽपि चम-