पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
154
अलंकारमणिहारे

 इदं शुद्धमुदाहरणम् । एवं प्रौढोक्त्यलंकारनिरूपणे प्रसङ्गादुपदर्शितं ‘एकोनविंशसंख्यकपुराणतः' इति पद्यमपि शुद्धमेवास्या उदाहरणम् ॥

 चन्द्रालोके तृतीये काव्यलक्षणमयूखे काव्यलक्षणत्वेन यानि अक्षरसंहतिशोभाभिमानहेतुप्रतिषेधनिरुक्तिमिथ्याध्यवसायसिद्धियुक्तिकार्याणि दश निरूपितानि; तानि कुवलयानन्दे चमत्कारितयाऽलंकारपदे निवेशितानि दीक्षितैः । तेष्वेकतमेयं मिथ्याध्यवसितिरिति ध्येयम् । तत्रैतल्लक्षणं लक्ष्यं चैवं दृश्यते--

स्यान्मिथ्याध्यवसायश्चेदसती साध्यसाधने ।
चन्द्रांशु सूत्रग्रथितां नभःपुष्पस्रजं वह ॥

 इति । वक्तव्यान्तरं तत्तदवसरे स्फुटीभविष्यति ॥

इत्यलंकारमणिहारे मिथ्याध्यवसितिसरस्सप्तषष्टितमः.



अथ ललितालंकारसरः (६८)


धर्मिणि प्रस्तुते वर्ण्यवृत्तान्तोल्लेखनं विना ।
तत्र तत्प्रतिबिम्बस्य वर्णनं ललितं मतम् ॥

 प्रस्तुतधर्मिणि प्रस्तुतव्यवहारानुल्लेखेन तत्रैव निरूप्यमाणः प्रकृतव्यवहारसंबन्धो ललितालंकारः । ‘दोर्भ्यामब्धिं तितीर्षन्तस्तुष्टुवुस्ते गुणार्णवम्’ इत्यादिनिदर्शनावारणाय तृतीयान्तम् । अप्रस्तुतप्रशंसावारणय प्रस्तुतधर्मिणीति ॥