प्राचीनकृतप्रौढोक्त्युदाहरणे यथा तमालेषु श्यामलिमातिशयार्थं श्यामलिमाधिकरणीभूतकालिन्दीसंबन्ध उद्भाव्यते तथा हेयगुणेषु मिथ्यात्वातिशयसिद्धये मिथ्यात्वाधिकरणैकोनविंशसंख्याकपुराणादेसंबन्ध इत्यस्यापि सुवचत्वात् । यदिच मिथ्याध्यवसितिरेवालंकारान्तरं स्यात् सत्याध्यवसितिरपि तथा स्यादित्यापादयता रसगङ्गाधरकृता--
हरिश्चन्द्रेण संजप्ताः प्रगीता धर्मसूनुना । |
इत्याद्युदाहृत्य अत्र हरिश्चन्द्रयुधिष्ठिरनिगमसंबन्धाद्गुणानां सत्यत्वं प्रतीयते । एवं--
मध्ये सुधासमुद्रस्य सितामयगृहोदरे । |
अत्रापि सुधासमुद्रादिसंबन्धात् उक्तिषु माधुर्यातिशयः प्रतीयमानः कस्यालङ्कारस्य गोचरः स्यात् । अतोऽलंकारान्तरं स्यात् । मम तु प्रौढोक्त्यैव गतार्थतेत्युक्तम् ॥
इत्यलंकारमणिहारे प्रौढोक्तिसरः पञ्चषष्टितमः.
अथ संभावनासरः (६६)
संभावनं स्याद्यद्येवं स्यादित्यूहोऽन्यसिद्धये ॥
यत्र किंचित्तर्कणमन्यत्तर्कणसाधनं तत्संभावनम् ॥
यथा--
मम कोटिवदनता स्याद्यदि पुरुषायुषमिदं च कोटिगुणम् । ईशीय हरे स्तोतुं कोटितमांशं त्वदेकगुणभूम्नः ॥ १६५० ॥