पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
132
अलङ्कारमणिहारे

 यथावा--

 पातालं हरिमहिळऽपारहितं सख्यमेत्य तावकनाभेः । स्तनसख्यमप्यगात्क्वनु सर्वगुरु स्थितिमयत्सतां न सुहृत्स्यात् ॥ १६३० ॥

 हे हरिमहिळे! पातालं कर्तृ । तव नाभेस्सख्यमेत्य तत्तुल्यं भूत्वेति हृदयम् । अपारं यथा स्यात्तथा हितं आप्तं सत् पक्षे पारहितमिति च्छेदः पावर्णविधुरं सत् स्तनयोस्सख्यमप्यगात् तालं तालफलं सत् कुचतौल्यमप्यलभतेति भावः । शब्दार्थतादात्म्यं न विस्मर्तव्यम् । तथा हि-- सर्वगुरु सर्वेषामपि पूज्यं सतां महतां स्थितिं मर्यादां अयत् प्राप्नुवत् वस्तु क्वनु कस्मिन्वस्तुनि सुहृत् न स्यात् ईदृशं सर्वसुहृदेव भवेदिति भावः । पक्षे सर्वे वर्णाः गुरवः यस्मिन् तत्तथोक्तं सतां ताकारसहितां स्थितिं अवस्थानं प्राप्तं, पातालमिति पदं गुरुभूतसर्ववर्णं ताकारसहितं चेति तथोक्तिः ॥

 एवं साधर्म्यवैधर्म्याभ्यां विशेषस्य सामान्येन समर्थने तयोः प्रस्तुतत्वाप्रस्तुतत्ववैलक्षण्यमनादृत्य समुदितान्येवोदाहरणानि यद्यपि प्रदर्शितानि । तथाऽपि अत्र प्रथमप्रभेदस्य ‘स्यालो हरेरितीन्दुः’ इत्यादिषूदाहरणेषु प्रस्तुतस्य विशेषस्याप्रस्तुतेन सामान्येन समर्थनं ‘त्वय्यत्यादरवांश्चेत् । त्वत्पदरुचिविद्वेषात्’ इत्युदाहरणयोः प्रस्तुतेन सामान्येनाप्रस्तुतस्य विशेषस्य समर्थनं द्वितीयप्रभेदस्य तु ‘संकल्पादेव जगत्' इत्याद्युदाहरणेषु प्रस्तुतस्य विशेषस्याप्रस्तुतेन सामान्येन ‘भ्रमरोऽपि तव पदाब्जे, इत्याद्युदाहरणचतुष्टये ‘कचविजितोऽवध्वस्तः' इत्याद्युदाहरणे च अप्र-