पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
125
अर्थान्तरन्याससरः (६३)

 यथावा--

 हुतवहमध्ये तप्त्वा द्रुतमुज्ज्वलितं भवान्तरे भर्म । वर्म तवाच्युत समजनि कल्याणस्य स्वतः किमप्राप्यम् ॥ १६१९ ॥

 हि अच्युत! भर्म स्वर्णं कर्तृ । हुतवहमध्ये पञ्चाग्निमध्ये अग्निमध्ये च तप्त्वा तपः कृत्वा तप्तं भूत्वा च अतएव द्रुतं शीघ्रं उज्ज्वलितं प्रकाशितं पक्षे द्रुतं द्रवतां गतं विलीनमित्यर्थः । उज्ज्वलितं पुटपाकेन शोभितमित्यर्थः । भवान्तरे जन्मान्तरे रूपान्तरे च तव वर्म कवचं अजनि । पक्षे भर्म भर्मेति पदं भवान्तरे वेन वकारेण अन्तरं अन्तर्धानं भस्य भकारस्य वान्तरं भवान्तरं तस्मिन् सति वकारस्य भकारेण तिरोधाने सति भकारस्थाने वकारोच्चारणे सतीति यावत् 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये' इत्यमर । वर्म अजनि । भर्मेति पदं वर्मेति निष्पन्नमित्यर्थः । स्वतः कल्याणस्य मङ्गळकृतः सुवर्णस्य च किमप्राप्यं सर्वं प्राप्यमेव ‘न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति’ इति गानादिति भावः । ‘कल्याणं मङ्गले स्वर्णे’ इति रत्नमाला । अत्रापि पूर्ववदेव समर्थनम् । श्लेषादिसंकीर्णत्वं विशेषः ।

 यथावा--

 भ्रमरोऽपि तव पदाब्जे लग्नोऽभ्रममेत्य भवति खल्वमरः । किंकिमलभ्यं त्वत्पदपङ्कजसक्तस्य वेङ्कटाद्रिमणे ॥ १६२० ॥