पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
102
अलङ्कारमणिहारे

 अत्र कनकगिरेभर्गवत्किरीटसादृश्याभावे यज्जगदीशो बिभर्ति शिरसैवेति वाक्यार्थः सकलसुरैरप्यधःकृतेनेति पदार्थश्चेत्युभयं संभूय हेतुतामश्नुते । ननु सकलसुरैरप्यधःकृतेनेति पदार्थः कनकगिरिनिष्ठत्वेन तन्निष्ठे भगवत्किरीटसादृश्याभावे हेतुभावं भजतां, यज्जगदीशो बिभर्तीति वाक्यार्थस्तु तदवृत्तितया कथं नाम तत्र हेतूभवितुमर्हतीतिचेत् साध्यकिरीटसादृश्याभावानुप्रविष्टकिरीटगततयोपनिबध्यमानो वाक्यार्थस्तथाविधकिरीटघटितसाम्याभावप्रायोजकतया हेतुरित्युभयं संभूय हेतुतां भजत इति गृहाण ॥

 यथावा--

 निर्विद्येऽहमविद्ये विद्येत मया न ते सुखलवोऽपि । विजहीहि मामकिंचनमकिंचनजनाश्रयं श्रितं किञ्चित् ॥ १५८४ ॥

 निर्विद्ये निर्विण्णोऽस्मि । अकिंचनजनानां दरिद्राणां उपायान्तरविधुराणां च आश्रयं कंचित्पुरुषं भगवन्तमिति वस्तुस्थितिः अत्राविद्यायाः स्वपरित्यागे पूर्वार्धवाक्यार्थः, अकिंचनजनेत्यादिपदार्थश्चेत्युभयं हेतुः । वाक्यार्थपदार्थयोस्सापेक्षताविरहेऽपि हेतुत्वमिति पूर्वस्माद्विशेषः । समासोक्तिसंकीर्णं चेदमित्यपरोऽपि विशेषः ॥

 यथावा--

 वितरति बहुप्रसादो विपुलां विनताय संपदं भगवान् । ननु कथमिव नित्यश्रीरसान्वितोऽयं बहुप्रदो न स्यात् ॥ १५८५ ॥