पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
342
अलङ्कारमणिहारे

तश्च पङ्कः कर्दमः कलुषं च यस्य तत्तथोक्तं विरचयितुं कतकतां पङ्किलाम्बुप्रसादकवृक्षविशेषफलतां धत्ते । अहो आश्चर्यमेतत् । यद्गारुत्मतं श्रीनिवासतां प्राप्य कतकतां धत्त इति । मरकतकमिति पदं अमराद्यतां मश्च रश्च मरौ आद्यौ वर्णौ यस्य तत् मराद्यं तन्न भवतीत्यमराद्यं तस्य भावः तत्ता तां प्रपद्य कतकतां धत्ते मरकतकशब्दः प्राथमिकमकाररेफयोरुद्वासने कतकमिति निष्पद्यत इत्यर्थान्तरं च चमत्कारि । अत्र कतकताधारणस्य हेतोः भुवनपङ्काधःकरणेन हेतुमता सह वर्णनं श्लेषमूलकविरोधोत्तम्भितम् ॥

 यथावा--

 प्राप्तश्शुभवर्तित्वं सुश्रीराज्याभिषेकतो भगवन् । सुमहानाकुलदीपस्तमोविधूत्यै विभाति भवदीयः ॥ १९९२ ॥

 हे भगवन् शुभे वर्तत इति शुभं वर्तयतीति वा शुभवर्ती तस्य भावः शुभवर्तित्वम् । पक्षे शुभा वर्तिः दशा यस्य तत्त्वं 'वर्तिर्दीपदशागात्रलेपयोर्मणिरञ्जने’ इति रत्नमाला । प्राप्तः राज्याभिषेकतः सुश्रीः । सुश्रीराज्येत्यत्र ‘रो रि' इति रेफलोपे ‘ढ्रलोपे' इति दीर्घः । पक्षे आज्याभिषेकतः सुश्रीः सुमहाः ना कुलदीपः इति छेदः । शोभनं महः उत्सवः यस्य स तथोक्तः ‘नित्योत्सवो भवेत्तेषाम्' इत्युक्तरीत्या निरन्तरोत्सवशाली महतेजस्वीति वा । ‘महस्तूत्सवतेजसोः’ इति सान्तनानार्थेष्वमरः । कुलदीपः स्वान्वयप्रकाशकः भवदीयः ना पुमान् । पक्षे भवदीयः सुमहांश्चासौ अनाकुलदीपश्च अनश्वरः