पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
310
अलङ्कारमणिहारे

प्रभायाः आश्लेषं संबन्धं मम घटयेत्यभिप्रायेण प्रयुक्तस्य सारसनाभाश्लेषमित्यादिवाक्यस्य सारसनाभस्य पद्मनाभस्य श्रीकृष्णस्य आश्लेषं उपगूहनं घटयेति श्लेषेणार्थान्तरं प्रकल्प्य घटयितुमेवायं परिष्कारोद्योग इत्युत्तरं प्रौढया सैरन्ध्र्या दत्तम् ॥

 यथावा--

 गोपालिके विलोकय किंचिदितः किं विलोकयाम्यलिके । गोपेत्यामन्त्रयसे गोपीं मां मुग्ध गोप एव त्वम् ॥ १९३३ ॥

 अत्रात्मानं प्रति कटाक्षप्रसारं प्रार्थयमानेन हे गोपालिके गोपि इतः किंचिद्विलोकयेति भगवता श्रीनन्दनन्दनेनोक्तस्य गोपालिके विलोकयेति वाक्यस्य हे गोप अलिके ललाटे किंचिद्विलोकयेति श्लेषेण प्रकल्प्यान्यमर्थं किं विलोकयाम्यलिके इत्याद्युत्तरं वितीर्णं विदग्धया व्रजवरारोहया । हे मुग्ध मूढ सुन्दरेत्याकूतं त्वमेव गोप इत्यन्वयः । नाहं गोपः किंतु गोपी । एवं स्त्रीपुंसभेदस्याप्यनवगमेन स्त्रियं पुंवाचकशब्देनामन्त्रयमाणस्त्वमेव पशुपाल इति भावः । यद्वा यथाश्रुतमेवान्वयः । एवं वदन् त्वं गोप एव । यदि नागरक एव भवेः कथमेवं ब्रूया इति भावः । गोपालकस्य स्त्री गोपालिका । पुंयोगलक्षणङीषः ‘पालकान्तान्न' इति निषेधः । टापि ‘प्रत्ययस्थात्' इतीत्वम् ॥

 यथावा--

 कबळयितुं खलु शक्यो मया शुनासीर एव किमुतान्यः । नेष्टे ग्रसितुं सीरं श्वेति मुरं प्रति वदन् हरिर्जयति ॥ १९३४ ॥