पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
59
काव्यार्थापत्तिसरः (‌६१)

 तथाहि--

 तव तेजसि भाति विभो न रविर्न विधुर्न भानि न च तटितः । भान्ति कुतोऽग्नेर्वार्ता भान्तं त्वामनुविभाति सर्वमिदम् ॥ १५१५ ॥

 अत्र ‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वम्’ इति श्रुतिप्रतिपादितप्रभावे भगवत्तेजसि सहस्रभानुप्रभृतीनामेव भानदौर्लभ्ये ततोऽप्यतिमात्रन्यूनस्य सलिलासेचनमात्रेणापि शाम्यतोऽग्नेर्भानदौर्लभ्ये कैमुतिकन्यायेन प्रतिपाद्यते ॥

 यथावा--

 हारलता याकाचिन्नाथ तवोरसि पदं यदि निदध्यात् । त्वद्दयिता जलधिसुता कृतास्पदाऽत्रेति नैतदाश्चर्यम् ॥ १५१६ ॥

 अत्र हारलताकर्तृकभगवद्वक्षोऽधिकरणकपदन्यासेन अप्रकृतेन भगवद्वक्षोऽधिकरणकश्रीपदन्यासनरूपस्य प्रकृतस्य सौकर्यं दण्डापूपिकया प्रतिपाद्यते । इयं च हारलतेति स्त्रीलिङ्गशब्देन नायिकात्वप्रतीतेस्समासोक्त्या संकीर्णा । एवमुत्तरत्रापि यथासंभवमूह्यम् ॥

 यथावा--

 दिनकरवितीर्णपूर्णद्युतिभरमब्जं जयेद्यदि पदं ते । वदनं तथेति सुधियो वदितुं के नाम नाथ संदिहताम् ॥ १५१७ ॥