पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
279
चित्रप्रश्नसरः (८७)

 यथावा--

 तापत्रयातुराणां भवेन्नराणां भुवीह काराका । असतां संगतिरेका सारविदां संगतिस्सतामन्या ॥ १८७८ ॥

 अत्र उत्तरार्धप्रतिपादितयोरुत्तरयोः काराकेति प्रश्नान्तराभिन्न एक एव प्रश्नः । कारा बन्धनालयः तद्वदतिशयितदुःखहेतुः केति प्रथमप्रश्नस्यार्थः । का राका पूर्णनिशाकरा पूर्णिमा तद्वत्तापहर्त्री केति द्वितीयप्रश्नस्यार्थः ॥

 यथावा--

 कालीका वृषगिरिपतितनुरथ तद्विमुखवदनवीक्षा च । काशङ्का न्यक्चक्रे तत्कीर्तिस्तत्परत्वविषया च ॥ १८७९ ॥

 अत्र पूर्वार्धे वृषगिरिपतितनुः तद्विमुखवदनवीक्षा चेत्युत्तरद्वयस्य कालिकेत्येक एव प्रश्नः । काळी श्यामला का इत्येकस्य प्रश्नस्यार्थः । का अलीका अप्रियेत्यन्यस्य । उत्तरार्धे तु तत्कीर्तिः तत्परत्वविषया चेत्युत्तरद्वयस्य काशङ्का न्यक्चक्रे इत्येक एव प्रश्नः । काशं काशकुसुमं का न्यक्चक्रे इति प्रथमप्रश्नस्य । द्वितीयस्य का शङ्का संशयः न्यक्चक्रे तिरस्कृता इत्यर्थः । भगवत्कीर्तिः काशं न्यक्करोति स्म । भगवत्परत्वविषया शङ्का अवधीरिताऽस्माभिरित्युत्तरयोरभिप्रायः । चक्रे इति प्रथमे प्रश्ने कर्तरि लिट् । द्वितीये तु कर्मणि इति ध्येयम् । पूर्वत्र प्रश्नान्तराभिन्नः प्रश्न एकः । अत्र तु द्वौ प्रश्नावितिविशेषः ॥