पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
277
उत्तरसर: (८६)

हरितः दिश इत्युत्तरम् । कीदृश्यः तत्तनुत्विषः हरिविग्रहरुच इति द्वितीयस्य हरितः हरिद्वर्णा इत्युत्तरम् । नीलहरिद्वर्णयोरभेदः कविसमयसिद्ध इत्यवोचाम वक्ष्यामश्च । ताभिः हरितनुरुचिभिः वृषशैलः कीदृक् स्यादिति तृतीयस्य हरितः हरितवर्ण इत्युत्तरम् । 'पालाशो हरितो हरित्' इत्यमरः । कुतः कस्माच्च निश्श्रेयसं भवेदिति तुरीयस्य हरितः हरेः इति सार्वविभक्तिकतस्यन्तपदेनोत्तरम् ॥

 यथावा--

 किं वितरति फणिगिरिपतिरङ्गद्युतिवैभवेन किं जयति । कं ध्वनयति रिपुविजये कंधरया कं धुनोति वद शंखम् ॥ १८७५ ॥

 किं वितरति फणिगिरिपतिरिति प्रश्नस्य शं सुखं इत्युत्तरम् । अङ्गद्युतिवैभवेन किं जयतीत्यस्य खं गगनं इति, कं ध्वनयति रिपुविजये इत्यस्य कंधरया कं धुनोतीत्यस्य च शङ्खमिति चोत्तरचतुष्टयं प्रश्नचतुष्टयादभिन्नम् । अत्राद्ययोः पदभेदेन अन्त्ययोस्तु तदभेदेनेति पूर्वतो भेदः ॥

 पद्यबहिर्वर्तिनो यथा--

 फणिशिखरिणि को निवसति को धूपो घ्राणतर्पणस्तस्य । किमहारि रहसि हरिणा विद्वन्नुत्तरमिहैकमेव वद ॥ १८७६ ॥

 अत्र प्रश्नत्रयस्याप्येकमेवोत्तरं श्रीवास इति पद्यबहिर्भूतम् । आद्ये प्रश्ने श्रीवासः श्रीनिवासो भगवानित्यर्थः । द्वितीये श्रीवासः देवदार्वादिनिर्यासविनिष्पादितो धूपविशेष इत्यर्थः । 'श्रीवासो