पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
254
अलङ्कारमणिहारे

 न चान्यगुणेनान्यत्र गुणोदयानुदयरूपाभ्यामुल्लासावज्ञालंकाराभ्यां तद्गुणातद्गुणयोर्गतार्थतेति वाच्यम् । उल्लासावज्ञालक्षणघटको गुणशब्दो दोषप्रत्यनीकवाची । अन्यगुणेनान्यत्र गुणोदयानुदयौ च न तस्यैव गुणस्य संक्रमासंक्रमौ । किंतु सदाचार्योपदेशेन सदसच्छात्रयोर्बोधोदयानुदयवत्तद्गुणजन्यतया संभावितयोर्गुणान्तरयोरुदयानुदयौ । तद्गुणातद्गुणयोस्तु गुणशब्दो रूपरसगन्धादिवाची । तत्रान्यदीयगुणग्रहणाग्रहणे च रक्तस्फटिकवसनमालिन्यादिन्यायेनान्यदीयगुणेनैवानुरञ्जनानुरञ्जने विवक्षिते तथैव च दर्शितान्युदाहरणानि । एवंच प्रदर्शयिष्यमाणे उदाहरणे नातद्गुणालंकारः । किंत्ववज्ञालंकार एव ॥

 शतकोटितोऽपि शतकोट्यधिककठोरे फणीन्द्रगिरिशिखरे । निवसन्नप्यविरतमिह नैष्ठुर्यं नाथ नाश्नुषे क्वापि ॥ १८३२ ॥

 अत्र कठोरतारूपगुणस्यानुपरञ्जकत्वात्तदनङ्गीकारो नातद्गुणः ॥

 यथावा--

 निहिताऽपि विधौ प्रसभं न हि तादृशशुद्धिमेति चपला धीः। वृद्धाऽपि समानतया न सैरिभी भजति सौरभीवृत्तिम् ॥ १८३३ ॥

 विधौ भगवति चन्द्रे च । निहिताऽपि धीः तादृशीं तत्प्राप्त्यनुगुणां विधुसदृशीं च शुद्धिं नैर्मल्यं विजातीयप्रत्ययासंवलितत्वमिति यावत् । पक्षे धवलिमानं नैति हि । कुत इत्यत्राह-- चपलेति । चपलत्वादेवेति भावः । समानतया वृद्धाऽपि सौर-