पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
248
अलङ्कारमणिहारे

काज्ञानस्य अतिशयिततिमिरस्य च श्रीः विभवः अन्यत्र सत्तमा अतिशोभना ‘सत्तमश्चातिशोभने’ इत्यमरः । श्रीः ज्ञानादिसंपत् मुक्तैश्वर्यं वा अनुवर्तते । अत्रापि श्लेषमहिम्ना तमसि गळितेऽपि तदनुवृत्तिर्दर्शिता ॥

 यथावा--

 प्रागम्ब तव कटाक्षाद्येषां कण्ठेषु सतरळाहाराः । पश्चादपि हन्तासंस्तेषां कण्ठेषु सतरळाहाराः ॥ १८२० ॥

 हे अम्ब! तव कटाक्षात्प्राक् कटाक्षप्रसरणात्पूर्वं येषां जनानां कण्ठेषु गळबिलेषु सतरळाः तरळ्या यवाग्वा सहिताः आहाराः निहीनाभ्यवहारा इत्यर्थः । आसन् पश्चादपि त्वत्कटाक्षप्रसरेण संपदुत्कर्षलाभादनन्तरमपि तेषां कण्ठेषु सतरळाहाराः उक्ताभ्यवहारा एव । पक्षे ग्रीवासु सतरळाः मध्यमणिसहिताः हाराः मुक्तावळ्यः आसन् । हन्तेत्याश्चर्ये ‘तरळं चञ्चले षिद्गे भास्वरेऽपि त्रिलिङ्गकम्' । हारमध्यमणौ पुंसि यवागूसुरयोस्स्त्रियाम्' इति मेदिनी । अत्रापि सतरळाहारा इति श्लेषेण पूर्वावस्थानुवृत्तिर्दर्शिता ॥

 यथावा--

 दशमुखशमनात्त्रिदिविक्षोभे दशरथसुतेन शमितेऽपि । संकुलिता द्यौर्बत मदविशृङ्खलैरावणोद्भटविलासैः ॥ १८२१ ॥

 द्यौः स्वर्गः मदेन विशृङ्खलैः निरर्गळैः रावणस्य दाशाननस्य उद्भटविलासैः संकुलिता संबाधिता । पक्षे मदेन विशृंखलः विग-