पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
37
विकल्पालङ्कारसरः (‌५६)

णतरणशब्दयोर्मकारतकारमात्रवैषम्यादन्यतरमुपादायेत्यप्यर्थश्चमत्कृतिविशेषायोपस्कार्यः ॥

 प्रतियन्नखिलांहस्ततिमोचनवचनं व्रजामि शरणं त्वाम् । प्राप्तस्तस्यावसरः प्रतारणं वाऽस्तु तारणं वा तत् ॥ १४७६ ॥

 अखिलांहस्ततिमोचनवचनं ‘सर्वपापेभ्यो मोक्षयिष्यामि’ इति तव वचः प्रतियन् विश्वसन् त्वां शरणं व्रजामीति चरमश्लोकार्थानुवादः । तस्य प्रतिज्ञातसर्वपापविमोचनस्य अवसरः प्राप्तः । सर्वपापशेवधिरूपमादृशविषयलाभादिति भावः । तत् तव वचनं प्रतारणं अतिसंधायकं वाऽस्तु तारणं संसृतिनिस्तारकं वा अस्तु ॥

 भक्त्याऽथवा प्रपत्त्या कृतापराधोऽपि नाथ विन्दे त्वाम् । मामेवं कुतयतनं गृहाण निगृहाण वा किमयशो मे ॥ १४७७ ॥

 एवं कृतयतनं अनुष्ठितोपायं मां गृहाण रक्षतया स्वीकुरु । निगृहण वा निगृहीष्व वा मे मम किमयशः का वाऽकीर्तिः, प्रत्युत प्रपन्ननिग्रहे तवैवाकीर्तिरिति भावः । अत्र मरणतरणयोः, प्रतारणतारणयोः ग्रहणनिग्रहयोश्च औपम्यप्रतीत्यभावात्केवलं विकल्पः । यथा-- जीवनं मरणं वाऽस्तु नैव धर्मं त्यजाम्यहम् इत्यादौ । अत्र जीवनमरणयोर्नौपम्यप्रतीतिरिति रसगङ्गाधरकारादयः ॥