पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
39
विकल्पालङ्कारसरः (‌५६)

स्तात्पर्यं, न तु मरणे वा प्रतारणे वा । एवं भक्त्येति श्लोकेऽपि बोध्यम् ॥

 यथावा--

 शङ्कातङ्कविदूरैर्लङ्काद्वारं न्यरोधि हरिवीरैः । सीतां वितर स्फीतां युधमथवा कोसलाधिनाथाय ॥ १४७९ ॥

 अत्र ‘सीतां वाऽस्मै प्रयच्छ त्वं सुयुद्धं वा प्रदीयतम्’
 इति श्रीरामायणश्लोकानुसारिणि रावणं प्रति सारणवाक्ये रावणविषये संधिविग्रहप्रमाणप्राप्तयोरत एव तुल्यबलयोर्युगपदसंभवतोस्सीतायुद्धवितरणयोः पाक्षिकान्यतरप्राप्त्यनुपमर्देनान्यतरप्रतिक्षेपलक्षणस्य विकल्पस्य वर्णनं कर्मणोस्सीतायुद्धयोः क्रियाफलेन वितरणेनैव समानधर्मेणौपम्यम् ॥

 यथावा--

 नागेशगिरिमणे भययोगेन त्वां प्रपन्न एष जनः । भोगं वा योगं वा देहि कियान् स्यात्तवैष भयभेदः ॥ १४८० ॥

 नागेशगिरिमणे शेषाद्रिशिरोमणे एष जनः भययोगेन भीतिसंबन्धेन त्वां प्रपन्नः । भोगं सांसारिकसुखं वा योगं भोगनिवृत्तिकारणभूतं भक्तियोगं वा त्वदनुभवं वा देहि निरङ्कुशस्वतन्त्रतया यथेष्टं वितर । तव एष भयभेदः प्रपन्नभीतिनिराकरणं कियान् स्यात् न दुष्कर इत्यर्थः । भोगयोगशब्दयोर्भकारयकाराभ्यां भेदः कियान् अकिंचित्करः वर्णान्तरैकरूप्यादिति चाभि-