पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
223
रत्नावळीसरः (७७)

 यथावा--

 धन्यश्चातकधर्मा यस्तत्प्रीत्यर्थमेव कृतकर्मा । कामं तमम्बुजाक्षं ध्यायति सानन्दबाष्पपरिमोक्षम् ॥ १७७८ ॥

 चातकस्य धर्म इव धर्मः ऐकान्त्यरूपो यस्य स तथोक्तः । पुमान् चातकवृत्तिः प्रपन्न इत्यर्थः । ‘प्रपन्नश्चातको यद्वत्' इति स्मरणात् । धन्यः । अन्यत्सुगमम् । अत्रापि चतुर्षु चरणेषु क्रमेण धर्मार्थकाममोक्षाणां चतुर्णां पुरुषार्थानां पूर्ववदेव प्रतिपादनम् ॥

 यथावा--

 सामजवरदो दानवभेदपटुर्दितिसुतेषु धृतदण्डः । भगवन्नुपायभूतो भव त्वमेवादरात्तव प्राप्तौ ॥

 अत्रापि सामदानभेददण्डानां प्रकृतान्वयं विना क्रमेण न्यसनम् । उपायभूत इति प्रकृतार्थपरेण पदेनास्मिन् पद्ये उपदर्शितोपायनामानि निबद्धानीति सूच्यार्थस्यापि सूचनान्मुद्रालंकारश्चेति तच्छेखरितेयं रत्नावळीति विशेषः ॥

 यथावा--

 ब्रह्मनुतो नलिनाक्ष त्रासहरस्फाटिकत्विषा वै श्येतः । आशूद्द्रावितदुरितश्चातुर्वर्ण्यं धराधरः प्रथयति ते ॥ १७८० ॥

 हे नलिनाक्ष! ब्रह्मणा चतुर्मुखेन नुतः । त्रासहरः भयहारी । स्फाटिकत्विषा श्येतः श्वेतः । ‘शुक्लशुभ्रशुचिश्वेतविशदश्येत-