पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
219
रत्नावळीसरः (७७)

 गारुत्मतकरसेव्यं मुक्तालम्बं प्रवाळसुकुमारम् । पश्येम पद्मरागं चरणं श्रीशस्य वज्रपाणिनुतम् ॥

 अत्र सहपाठसद्भावेऽपि क्रमप्रसिद्धिरहितानां गारुत्मतादीनां पञ्चानां रत्नानां उपरञ्जनादिविधया यथाकथंचित्प्रकृतान्वयिनां वर्णनमितीयमपि रत्नावळी अक्रमरूपैव ॥

 यथावा--

 घनशृङ्गसङ्गताङ्गाश्चटुलकलिङ्गास्तथा पृथुलवङ्गाः । प्रचुरमहाच्छविदर्भास्सुसंनिवेशाः फणीशगिरिदेशाः ॥ १७६९ ॥

 घनानि शृङ्गाणि तैः । पक्षे घनं शृङ्गं प्राधान्यं तेन संगतं अङ्गं येषां ते । पक्षे घनशृङ्गसंगताः अङ्गाः तन्नामानो देशाः येषां ते ‘शृङ्गं प्राधान्यसान्वोश्च' इत्यमरः । देशेषु मध्ये अङ्गस्य प्रथमपरिगणनात्प्राधान्यम् । चटुलाः कलिङ्गाः खगविशेषाः कलिङ्गदेशाश्च येषु ते पृथवः महान्तः लवङ्गाः लवङ्गतरवो येषु ते । पृथुलाः विशालाः वङ्गाः तन्नामानो देशविशेषाश्च येषु ते । स्पष्टमन्यत् । अत्राङ्गादिदेशतादात्म्यं फणिगिरिदेशानां प्रतीयत इति क्रमप्रसिद्धिरहितानामङ्गादिदेशानां न्यसनं प्रकृतान्वयि ॥

 प्रकृतानन्वयवती सक्रमा रत्नावली यथा--

 घनघृणिमणिप्रभावति कामं त्रातुं जगन्ति तापेभ्यः । आविरभूर्हरिभूभृति यत्रोत्सा हस्तिवरद भान्ति हिमाः ॥ १७७० ॥