पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
23
परिवृत्त्यलंकारसरः (‌५४)

 वसुधायाः धरणीदेव्याः तनया पद्मावती तस्याः । पञ्च शाखाः यस्य तं कञ्चिद्वस्तुविशेषं, पाणिमिति तु तत्त्वम् । सहस्रशाखं अनन्तशखान्वितं अतिविपुलमति तत्त्वम् ॥

 यथावा--

 यत्कींचिच्छदमच्युत भुवनलवं चापि तव पदे दत्वा । अधिपत्वं भुवनानामाददिरे बहुपरिच्छदं कृतिनः ॥ १४५१ ॥

 यत्किंचिच्छदं तुलस्यादिदलं भुवनलवं जलकणं च तव पदे दत्वा ‘पत्रं पुष्पम्’ इत्युक्तरीत्या बहवः परितः छदाः दलानि यस्मिन्, पक्षे बहवः परिच्छदाः सचिवादिपरिवाराः यस्य तत्तथोक्तं भुवनानां उदकानां लोकानां च अधिपत्वं वरुणत्वमिन्द्रत्वं धातृत्वं वा आददिरे स्वीचक्रिरे । कृतिन इति विशेष्यं यत्किंचिन्न्यूनवस्तुदानेनातिमात्राभ्यधिकवस्तूपादानचातुर्याभिप्रायगर्भम् । अत एवेयं श्लेषपरिकराङ्कुरोत्तेजितेति पूर्वस्माद्विशेषः पूर्वं तु श्लेषमात्रोपस्कृतम् ॥

 यथावा--

 श्रुतियुवतीसीमन्तप्रतियत्नमनर्घमसितरुचिरत्नम् । श्लक्ष्णप्रवाळदानाच्छशिवदना काऽपि गोपिकाऽक्रीणात् ॥ १४५२ ॥

 श्लक्ष्णः अल्पः ‘श्लक्ष्णं दभ्रं कृशं तनु' इत्यमरः । यः प्रवाळः विद्रुमः तस्य, पक्षे श्लक्ष्णः स्निग्धः ‘मसृणे श्लक्ष्णसोमालचिक्कणाः’ इति वैजयन्ती । यः प्रवाळ: तत्त्वेनाध्यवसितोऽधरः तस्य प्रदानात् । स्पष्टमन्यत् ॥