पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
244
अलङ्कारमणिहारे

अथ तद्गुणसरः (७८)


 स्वगुणस्य परित्यागात्तद्गुणोऽन्यगुणग्रहः ।

 स्वगुणस्य परित्यागपूर्वकं स्वसन्निहितवस्त्वन्तरसंबन्धिगुणग्रहणं तद्गुणः । तस्य गुणोऽस्यास्तीत्यन्वर्थसंज्ञोऽयम् ॥

 यथावा--

 इन्दीवरसुषुमाभरमन्दीकृतिनिपुणतावकाङ्गरुचा । रञ्जित इह वृषगिरिरयमञ्जननामानुरूपमुल्लसति ॥ १८१२ ॥

 यथावा--

 मरकतनिभनिजरुचिविच्छुरितं गरुडं जनास्समारूढम् । सकलं जगद्विजेतुं शुकमधिरूढं स्मरं हरिमजानन् ॥ १८१३ ॥

 यथावा--

 अधररुचाऽधोऽरुणतममसितमुपर्यक्षितारकारुचिभिः । नासामौक्तिकमेतद्भासा गुञ्जायतेऽम्ब भवदीयम् ॥ १८१४ ॥

 यथावा--

सरसि निविशमानायां सलिलविहारे हिरिण्यवर्णायाम् । त्वय्यापः प्रणयन्ति श्रुतिकथितं स्वं हिरण्यवर्णात्वम् ॥ १८१५ ॥