पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
238
अलङ्कारमणिहारे

कामवैरी तस्य रमणी गौरी तया ईड्यं स्तुत्यं अतुलं असदृशं अळिकं ललाटं यस्य तत् विचापलं अचञ्चलशीलं वीक्ष्येति क्रियाया विशेषणं वा । असमौ असदृशौ करौ पाणी यस्य तत् । शम एषामस्तीति शमिनः तेषां इनाः प्रभवश्शान्ताग्रण्य इत्यर्थः । विनताः सकला शमीनाः यस्य यस्मिन्वा तत्तथोक्तं वृषाद्रिस्थं मिथुनं श्रीश्रीनिवासरूपं स्त्रीपुंसात्मकं द्वंद्वं वीक्ष्य दृष्ट्या ध्यात्वा वा कर्कं कल्कं रलयोरभेदात्पापं ‘कल्कोऽस्त्री शमलैनसोः' इत्यमरः । तदस्यास्तीति कर्की स न भवतीत्यकर्की, विनष्टाश्लिष्टपूर्वोत्तराघः एषः अहं स्यामिति योजना । भवेयमित्यर्थः ॥

 प्रकृतानन्वयवती अक्रमा यथा--

 मधुरामा यास्तासां दाता कांचिच्छुचं विजितकाशी । सदयो ध्यातोऽस्तु वहन् हृदि नतसद्वारकामवन्तीं लक्ष्मीम् ॥ १८०२ ॥

 याः मधोः तन्नम्नोऽसुरस्य रामाः स्त्रियः तासां कांचित् शुचं वैधव्यप्रयुक्तं शोकं दाता । ददातेस्तृन् । मधुदैत्यसंहर्तेति भावः । विजितेन विजयेन भावे क्तः काशत इति विजितकाशी काशतेर्णिनिः ‘वानरा जितकाशिनः’ इतिवत् । नताः सतां वाराः निवहाः यस्यां सा नतसद्वारका तां अवन्तीं सर्वलोकपालयित्रीं लक्ष्मीं हृदि वहन् अतएव सदयः पुमान् परमपुरुषः श्रीनिवास इति भावः । ध्यातः अस्तु । मयेति शेषः। अत्र--

अयोध्या मधुरा माया काशी काञ्चिरवन्तिका ।
पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः ॥

 इति प्रसिद्धक्रमपाठानां क्रमव्यतिक्रमेण न्यसनम् ॥