हे हस्तिवरद! घनाः सान्द्राः घृणयः किरणाः येषां तेषां मणीनां प्रभा अस्मिन्नस्तीति तथोक्ते जलदच्छविरत्नप्रभावतीति वा हरिभूभृति वेंकटाद्रौ जगन्ति कामं तापेभ्यः त्रातुं आविरभूः । यत्र गिरौ हिमाः शिशिराः उत्साः प्रस्रवणानि 'उत्सः प्रस्रवणम्' इत्यमरः । भान्तीति तद्गिरौ भगवत आविर्भावस्य तापनिवर्तनौपयिकत्वमुक्तम् । अत्र प्रभावमन्त्रोत्साहानां त्रयाणां प्रसिद्धसहपाठानां मुद्रालंकारविधया प्रकृतानन्वयिनां क्रमेण न्यसनम् । एवमुत्तरोदाहरणेष्वपि ॥
यथावा--
नलिनाक्ष यः फणीश्वरशिखरिस्थानन्त तावकीनानाम् । चरणाब्जरेणुविशमितकलुषो नीवृद्धि स खलु वासार्हः ॥ १७७१ ॥
नीवृत् जनपदः । अत्र क्षयस्थानवृद्धीनां प्रागुक्तरीत्या क्रमेण न्यासः ॥
यथावा--
आनर्चाब्जभवोऽयं विनयजुषा मानसेन साम्नायम् । सोऽव्यादृगादिरूपो भव्यात्मा दिव्यसैन्धवो भगवान् ॥ १७७२ ॥
साम्नायं ससंप्रदायं ‘अथाम्नायस्संप्रदाये’ इत्यमरः । ऋगादिरूपः 'ऋग्यजुस्सामरूपाय’ इति तन्मन्त्रवर्णात् । दिव्यसैन्धवः श्रीहयग्रीवः अत्र ‘ऋचो यजूंषि सामानि योऽधीते सकृदञ्जसा' इत्यादिशास्त्रप्रतीतसहपठनानामृग्यजुस्साम्नां क्रमेण न्यसनम् । ऋगादिरूपपदेन उक्तविधक्रमनिबन्धोऽत्र सूचनीयस्सूचित इति मुद्रालंकारशिरस्कता तु विशेषः ॥