पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
218
अलङ्कारमणिहारे

 इन्द्र इव पालितस्वस्थेमा शमन इव दक्षिणानुगतः । धनद इव राजराजो भवदीयो वरुण इव घनरसेशः ॥ १७६६ ॥

 पालितः स्वस्थेमा स्वर्गस्थैर्यं स्वस्य धनस्य स्थैर्यं च । दक्षिणा दक्षिणदिक् तया अनुगतः तदीश इति यावत् । दक्षिणैः उदारैर्जनैः अनुगतश्च । राजराजः राजराजनामा राजाधिराजश्च । घनरसस्य सलिलस्य ईशः । रसायाः ईशः भूपतिः घनश्चासौ रसेशश्चेति विग्रहः । स्पष्टमन्यत् । अत्रेन्द्रादीनां चतुर्णां लोकपालानां किंचित्क्रमव्यत्ययेन कथनं उपमानविधया प्रकृतान्वयित्वं च । इदमेवाष्टानां लोकपालानां मध्ये चतुर्णामेव निबन्धनात् क्रमवैकल्यस्याप्युदाहरणम् ॥

 द्विरदमुखसत्त्वहृद्यो भुजगाह्वयभूषणो भुवि गिरीशः । वनमाली च विचित्रं भाति सरोजातभाविताभ्युदयः ॥ १७६७ ॥

 द्विरदमुखैः गजप्रभृतिभिस्सत्त्वैः जन्तुभिः । अन्यत्र द्विरदमुखः विघ्नराजः तस्य सत्वेन स्थित्या हृद्यः । भुजग इति आह्वयः नाम भूषणं यस्य । अन्यत्र भुजगाह्वयानि फणिरूपाणि भूषणानि यस्य स तथोक्तः । गिरीशः शैलराजः शिवश्च । वनमाली काननपङ्क्तिमांश्च भगवानपीति च । सरोजातेन कासारनिवहेन पक्षे सरोजाते पद्मे भावितः अभ्युदयः उच्छ्रयः आविर्भावश्च यस्य स तथोक्तः । अत्र प्रसिद्धक्रमाणां ब्रह्मविष्णुशिवानां सर्वथा वैपरीत्येन कथनम् । उपरञ्जनविधया प्रकृतान्वयित्वं च ॥